रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 250, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १६३ अष्टपत्रं महाभा(ग ? गा ) कर्णिकायान्तु संस्थिता । विनायकवदासीना देवी कार्या महाभुजा ॥ १०३ ॥ बृहन्नालं करे कार्यं तस्याधः कमलं शुभम् । दक्षिणे यादवश्रेष्ठः केयूरप्रान्तसंस्थितः ॥ १०४ ॥ वामेऽमृतघटः कार्यस्तथा तस्या मनोहरः । तस्या (:) सव्यौ क( रे ? रौ ) कार्यों विल्वशङ्खध( रे ? रौ) क्रमात् ॥ १०५ ॥ आवर्जितघटं कार्यं तत्पृष्ठं च करद्वयम् । देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम् ॥ १०६ ॥ इति लक्ष्मीः । १०२-३ । सिंहासनमिति । चारुकर्णिकम् अष्टपत्रं कमलं सिंहासनं प्रकर्त्तव्यं सिंहासनत्वेन कल्पनीयम् । तस्य कर्णिकायां महाभागा देवी संस्थिता इत्यन्वयः । 'अष्ट- पत्राम्बुजस्योर्द्ध्वे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥' इति रूपमण्डनीय- ( अ० ५, श्लो० ५७ ) पाठदर्शनादम्बुजोपरि सिंहासनं तत्र लक्ष्मीर्विनायकवदासीना इत्यर्थः सम्पद्यते । अयमेव यदि प्रमाणं तदा 'सिंहासनं प्रकर्त्तव्यं कमले चारुकर्णिके । अष्टपत्रे' इति पाठपरिवर्त्तनेनात्रत्यं पादत्रयं शोधनीयम् । विनायकवदासीनेत्यनेन किं लक्ष्यत इति न विद्मः । १०६ । आवर्जितघटमिति— 'आवर्जितघटं कार्यं तत्पृष्ठे च करिद्वयम्' इति स्यात् । अस्यार्थः—तस्या देव्याः पृष्ठे पृष्ठपार्श्वयोरित्यर्थः, आवर्जितघटम् अवनमितं- कलसद्वयं करिद्वयं हस्तिनौ कार्यम् इति । इदं मतान्तरम् 'उत्तप्तहाटकनिभा करिभिश्चतुर्भिराव- र्जितामृतघटैरभिषिच्यमानां' इत्यन्यत्रोक्तेः, मुक्तागौरैश्चतुर्भिर्द्विपपतिभिरथो पुष्करोद्धृतहस्त्या- न्निर्यद्गङ्गाभिषिक्ता करकमललसत्पद्मयुग्माभयेष्टा । नानाकल्पाभिरामा द्रुतकनकनिभा रक्तपङ्केरुहस्था रम्याङ्गी सुप्रसन्ना वितरतु विपुलां सन्ततं श्रीः श्रियं वः ॥ इति शिल्परत्नवचनाच्च ( उ० भा० अ० २४ श्लो० ९ ) । करिद्वयपक्षमन्यनुगृह्णाति—