रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 249, कुल 335 में से
संदर्भ में पढ़ें१६२ देवतामूर्त्तिप्रकरणम् चण्डिकायतनोक्ता (च ? नां) कथयिष्याम्यनुक्रमम् । वेतालो वरटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥ ६५ ॥ धूम्रकः कण्ठदकश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननश्च विकटः कोपस्फुरदशनोज्ज्वलः ॥ ६६ ॥ तर्जनी खट्वाङ्गं चैवोर्द्ध्वं स्या (स्याद्) डमरुदण्डकौ । वेतालस्तु समाख्यातः सव्यापसव्ये करटकः ॥ ६७ ॥ अभयं खड्गखेटञ्च दण्डं पिङ्गललोचनः । अभयापसव्ययोगेन भवेद् भृकुटिनामतः ॥ ६८ ॥ तर्जनीवज्राङ्कुशदण्डं धूम्रको नाम कीर्त्तितः । सव्यापसव्ययोगे च भवेत् (कक ? ककु)द्नामकः ॥ ६६ ॥ तर्जनीत्रिशूलहस्तं खट्वाङ्गं दण्डमेव च । रक्ताक्षो नाम तस्यैव सव्यापसव्ये सुलोचनः ॥ १०० ॥ इति चण्डिकाप्रतीहाराः । दिव्याम्बुजकरा (कुर्या ?कार्या) सर्वाभरणभूषिता । गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ॥ १०१ ॥ प्रथमा चतुर्भुजा कार्या देवी सिंहासने शुभा । सिंहासनं प्रकर्त्तव्यं कमलं चारु(व ? क)र्णिकम् ॥ १०२ ॥ ९६। आयुधप्रतिपादनावसरे शततमश्लोके 'ककुद्' इति नामदर्शनादिहापि तदेव नाम युक्तमिति 'धूम्रकः ककुदश्चैव' इति पाठः स्यात् । वेता (ल ? लः) करटश्चैव पिङ्गाक्षो भृकुटिस्तथा । सूत्रकः ककुदश्चैव रक्ताक्षश्च सुलोचनः ॥ ( अ० ५, श्लो० ५१-५२ ) इति रूपमण्डने नाम्नो वैलक्षण्यमुपलभ्यते । ९७। करटक इति पूर्वं 'वेतालो वरटश्चैव' इति घोषवद्वर्णनिमित्तक-विसर्गसन्धिरदर्श- नात् सन्नपि रूपमण्डने 'करट' इति पाठो नोपात्तः, अत्र पुनः 'करट' इति दृश्यते । परमत्र साधकबाधकप्रमाणाभावादेकाक्षरमात्रकृता 'वरटे'ति शुद्धिः शक्यसम्पादनेति मन्यामहे ।