रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 252, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १६५ त्रिशूलं खड्गचक्रौ च बाणं शक्तिं च दक्षिणे । वामे ( च ) खेटकं चापं पाशमङ्कुशमेव च ॥ ११३ ॥ घण्टां वा परशुं वाऽपि वामहस्ते नियोजयेत् । अधस्तान्महिषं तद्वद् विशिरस्कं प्रकल्पयेत् ॥ ११४ ॥ शिरश्छेदोद्भवं तद्( दा ? द्वा )नवं खड्गपाणिनम् । हृदि शूलेन निर्भिन्नं निर्य(दन्त?दन्व)विभूषितम् ॥ ११५ ॥ रक्तर(क्तिक ? क्तीकृ)ताङ्गञ्च रक्तविस्फारितेक्षणम् । वेष्टितं नागपाशैश्च भृकुटीभीषणान (ना ? नम्) ॥ ११६ ॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ ११७ ॥ इति कात्यायनीमूर्त्तिः । [ नृत्ये संस्थानवैशिष्ट्यम् ] भङ्गे भङ्गे मुखं कुर्याद्ध(स्ते ? स्तौ ) दृष्टिं च नर्त्तने । हस्तकार्यं भवेल्लोके कर्मणोऽभिनयेऽखिलम् ॥ ११८ ॥ ११३ । 'त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः । तीक्ष्णबाणं तथा शक्तिं वामतोऽपि निबोधत ॥ खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।' इति मात्स्ये । ११४ । 'वामतः सन्निवेशयेदि'ति मात्स्ये पाठः । 'प्रकल्पयेदि'त्यत्र 'प्रदर्शयेदि'ति मात्स्ये पाठो ध्येयपरत्वेन निर्देशात् यथा सुश्लिष्ट एवमिहापि निर्माणत्वेनोपपादनात् 'प्रकल्पये- दि'त्येव पाठः प्रकृतोपयोगी । ११६ । एतस्माच्छ्लोकात् परं 'सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ॥' इत्ययं श्लोकोऽधिको मात्स्ये । ११८ । 'भैरवं कारयेत्तत्र नृत्यमानं विकारणम्' ( ८।७७ ) इत्यादिपद्ये नृत्यन्मूर्त्ति- दर्शनात्तदुपयोगितयाऽस्थान एव नृत्यसंस्थानं दर्शयितुमाह — भङ्गे भङ्गे इति । नर्त्तने भङ्गे भङ्गे नर्त्तनस्य प्रतिविच्छेदं प्रतिपादक्षेपमिति यावत्, मुखं हस्तौ दृष्टिश्च कुर्याद् विदध्यात्, नर्त्तनविषयोपयोगितया मुखादीनि विन्यस्येदित्यर्थः । अथवा तृतीयश्लोके 'आस्येनाऽऽलम्बयेद् गीतम्' इति दर्शनाद् गीतस्य भङ्गे भङ्गे मुखं कुर्यात्, नृत्ये हस्तौ दृष्टिश्च कुर्यादित्यर्थः कार्यः ।