भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 253, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 253

१६६ \qquad देवतामूर्त्तिप्रकरणम् [ हस्तादीनां रसाभिव्यञ्जकता ] यतो हस्तस्ततो दृष्टि (य ? र्य) तो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ ११६ ॥ मुखादीनां प्रातिस्विकं विषयम् 'आस्येनाऽऽलम्बयेद् गीतम्' इत्यादौ दर्शयिष्यति । कथमेवं कुर्या- दित्यपेक्षायामाह—हस्तकाद्यमिति । यतः हस्तकाद्यं मुखहस्तदृष्टयः लोके कर्मणश्चलन- भोजनादेरभिनये अवस्थानुकारे अखिलं सप्रयोजनं भवेत् । यथा हि लोके वाचा स्वं स्वं मनोगतं प्रकाश्यते एवमेव हस्तादेरिङ्गितेनापि तत् प्रकाशयितुमर्हन्तीत्यर्थः । अत्र पूर्वार्धे मुखस्य प्राङ्- निर्देशादिह 'मस्तकाद्यम्' इत्येव पाठः साधीयानिति प्रतिभाति । यथाश्रुतपाठे 'हस्तकाद्यम्' इत्यत्राऽऽदिपदम् आद्यन्तयोर्मुखदृष्ट्योर्ग्राहकम् । ११६ । सम्प्रति हस्तादीनां रसाभिव्यक्तौ कारणतामाह—यत इति । अत्र नृत्य- प्रसङ्गात्तदुपयोगितया रसस्यैव चरमभाविफलत्वमुक्तम् , समराङ्गणसूत्रधारे तु— रसानाम्थ वक्ष्यामो दृष्टीनां चेह लक्षणम् । तदायत्ता यतश्चित्रे भावव्यक्तिः प्रजायते ॥ (अ० ८२, श्लो० १) इति चित्रविषयत्वेन भावाभिव्यक्तेरेव चरमफलत्वमुक्तम् । तत्र भावाभिव्यक्तेर्दृष्ट्यायत्तत्वं दृष्टिव्यङ्ग्यत्वम्, रसायत्तत्त्वं रसानुसारित्वमिति विवेकः । सम्प्रति व्याख्यायते—यतो यस्मिन् विषये हस्तः प्रवर्त्तते, हस्तो यं विषयं प्रतिपादयतीत्यर्थः, दृष्टिरपि ततस्तत्रैव भवेत्, हस्तानुगुणविषये एव दृशं प्रवर्त्तयेदित्यर्थः । यत्र दृष्टिस्तत्र मनः, मनोऽपि दृष्ट्यनुकूलविषये निवेशयेदित्यर्थः । यत्र मनस्तत्र भावः तस्य मनोविकाररूपत्वात् ; यथोक्तं 'निर्विकारात्मके चित्ते भावः प्रथमविक्रिये'ति । यत्र भावश्चित्तविक्रिया तत्रैव रसो भवेत् , रसस्य विभावानुभावव्यभिचारिभावव्यङ्ग्यस्थायिभावरूपत्वेन तस्य भावस्य चाविनाभावत्वेन प्रतीतेः । अत्र हस्तदृष्टिमनसां व्यापारः कर्तृसाध्यः, इतरयोस्तु व्यापारः प्रतिबन्धापगममात्रेण यदृच्छयोत्पद्यत इति भेदः, रसस्तु फलीभूत इति न तस्य व्यापारचिन्ता । अत्र भावपदेन स्थायी भाव उच्यते । अत्र च चित्रे रसाभिव्यञ्जनार्थमुपक्षिप्तमिदं पद्यमिति प्रत्यक्षयोर्हस्तदृष्ट्यो- रेवात्रोपयोगो न त्वप्रत्यक्षस्य मनसः, तथाऽप्यस्य दृष्टिप्रेरकत्वेन भावकारणत्वेन चोपन्यासो नानुयोगमर्हति । एवं यद्यपि चित्रे भावरसयोर्विवेकोऽप्यनतिप्रयोजनीयस्तथाऽपि रसस्य मुख्यफलत्वेऽविसंवादात्तदुपस्थापनञ्चोपयुज्यत इति ज्ञेयम् । यस्य खलु चित्रस्य हस्तौ युद्धाद्योद्युक्तौ तस्य कथं भावः स्यात् कथं वा दृष्टिरित्यादि- संशयापनुत्त्यर्थमयमारम्भः । तथा च यस्य हस्तौ युद्धव्यापृतौ तस्य प्रायेणोत्साहो भावो दृष्टे- रुज्ज्वलत्त्वादिना शिल्पिना प्रतिपाद्येतेत्यर्थः । उक्तञ्च समराङ्गणे—

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 253, कुल 335 में से · BharatKosha