रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 282, कुल 335 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः रूपमण्डनम् —: ० :— प्रथमोऽध्यायः [ ग्रन्थारम्भः ] विश्वरूपं नमस्कृत्य पूर्वतन्त्रानुसारतः । मण्डनस्तनुते वास्तुशास्त्रं श्रीरूपमण्डनम् ॥ १ ॥ [ मूर्त्तीनां कर्त्तव्यतोपदेशः ] प्रासादे लिङ्गमूर्तीनां प्रमाणं शास्त्रलक्षतः । मनुष्यपशुपक्ष्यादिरूपं कुर्यात्तदाकृतेः ॥ २ ॥ [ प्रशस्तशिलालक्षणम् ] निविडा निर्व्रणाऽमृद्वी सुगन्धा मधुरा शिला । सर्वार्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥ ३ ॥ [ दुष्टशिलालक्षणम् ] विमलं हेमकांस्यादिचिह्नं लोहमयञ्च यत् । तथाऽन्यद्विविधं चिह्नं प्रतिमायां भयावहम् ॥ ४ ॥ [ पुनः शुभशिलालक्षणम् ] कपोतभृङ्गकुमुदमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सर्वार्त्चासु शुभा शिला ॥ ५ ॥ [ शिलाहरणदिनादिनिर्देशः ] सुदिने सुमुहूर्त्ते च शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कुर्यान्न चान्यथा ॥ ६ ॥