रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 283, कुल 335 में से
संदर्भ में पढ़ें४ रूपमण्डने [ गृहपूज्यप्रतिमामानम् ] आरम्यैकाङ्गुलादूर्द्धं पर्यन्तं द्वादशाङ्गुला । गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥ ७ ॥ [ देवालयपूज्यप्रतिमामानम् ] तदूर्द्धं नवहस्तान्तं पूजनीया सुरालये । [ अनावृतदेशपूज्यप्रतिमामानम् ] दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥ ८ ॥ दशादि(१)करपृष्ठ्या तु षट्त्रिंशत् प्रतिमा(:) पृथक् । बाणवेदकरान् यावत् (२)चतुष्कां पूजयेत् सुधीः ॥ ९ ॥ [ प्रतिमाघटनद्रव्याणि ] अष्टलोहमयी मूर्तिः शैलरत्नमयी शुभा । श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥ १० ॥ [ जीर्णोद्धारविधिः ] (३)अतीतब्दः शता (४)मूर्त्तिः पूज्या स्यान्महत्तमैः । खण्डिता स्फुटिताऽप्यर्च्या अन्यथा दुःखदायका ॥ ११ ॥ धातुरत्नविलेपोत्था व्यङ्गा(:) संस्कारयोग्या(:) । काष्ठपाषाणजा भग्ना(:) संस्कारार्हा न देवताः ॥ १२ ॥ [ भीषणदेवतास्थानम् ] भैरवः शस्यते लोके प्रत्यायतनसंस्थितः । न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥ १३ ॥ नरसिंहो वराहो वा तथाऽन्येऽपि भयङ्कराः । [ दुष्टाः प्रतिमाः ] नाधिकाङ्गा न हीनाङ्गाः कर्त्तव्या देवताः क्वचित् ॥ १४ ॥ (१) ‘-करवृद्ध्या’ इति स्यात् । (२) ‘चतुष्क्याम्’ इति स्यात् । (३) ‘अतीताब्द- शता’ इति स्यात् । (४) ‘मूर्तिर्या पूज्या’ इति स्यात् ।