रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 284, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ५ प्रतिमाकाष्ठ(१)लेपानुमदन्तचिलायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥ १५ ॥ [ अर्चावैकृतकथनम् ] नर्त्तनं रोदनं हास्यमुन्मीलननिमीलने । देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महाभयम् ॥ १६ ॥ वत्सेनाभिमुखे कुर्याद् यालां द्वारञ्च वास्तुनः । प्रवेश(:) प्रतिमादीनां गुर्विणीनां विशेषतः ॥ १७ ॥ [ प्रतिमाशिरोज्ञानम् ] प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥ १८ ॥ [ तालमानेन मूर्त्तयः ] ग्रासवक्तूमेकभागे द्वौ पक्षी कुञ्जराह्वयः । किन्नराश्वाश्चतुस्तालाः (२)पञ्चाशितसुरा वृषः ॥ १९ ॥ शूकरो वामनश्चापि षट्तालो गणनायकः । सप्तभागाः प्रकर्त्तव्या वृषशूकरमानकाः ॥ २० ॥ अष्टांशा पार्वती देवी सर्वे देवा नवांशकाः । दशतालो भवेद्रामो बलिरूर्ध्वो जिनस्तथा ॥ २१ ॥ ताला एकादश स्कन्दो हनुमान् भूतचण्डिका । ताला द्वादश वेताला राक्षसाश्च त्रयोदश ॥ २२ ॥ दैत्याश्चतुर्दशांशाः स्युर्भृगु(३)रूपा ततोऽधिका । (४)कालांशाः क्रूरदेवाः स्युरत ऊर्द्ध्वं न कारयेत् ॥ २३ ॥ (१) ‘-लेपाश्मदण्डचित्रायसां गृहे’ इति स्यात् । (२) पञ्चासितसुरा’ इति स्यात् । (३) ‘-रूपं ततोऽधिकम्’ इति स्यात् । (४) ‘कलांशाः’ इति स्यात् ।