रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 292, कुल 335 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः ───:०:─── [ युगभेदेन वर्णभेदेन च विष्णुमूर्तयः ] वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । श्वेतरक्तपीतकृष्णा(:) क्रमात् (१)कलयुगादिषु ॥ १ ॥ पूज्या द्विजादिभिश्च──────────── [ शिरोविधानम् ] ──────एषां छत्राभं कुक्कुटाण्डवत् । वपुषाभञ्च बालेन्दुरूपं कुर्याच्छिरः क्रमात् ॥ २ ॥ [ वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः । पूजिता मूर्त्तयो ह्येता विप्राणां सौख्यदायकाः ॥ ३ ॥ मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ । त्रिविक्रमो वामनश्च वैश्यानाम् (२)अर्चयेच्छुभा ॥ ४ ॥ पूजिता (३)श्रीधरी मूर्त्तिः शूद्राणां सौख्यदायिनी । चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ५ ॥ मेदभिल्लकिरातानां हृषीकेशः सुखप्रदः । कुम्भकारवणिग्वेश्या(४)चक्रिकाध्वजिनामपि ॥ ६ ॥ सर्वेषां प्रकृतीनाञ्च पद्मनाभः सुखावहः । दामोदरः सौख्यदः स्याद् (५) ब्रह्मचर्यैकदण्डिनोः ॥ ७ ॥ (६)हरिहरो हिरण्यगर्भो नारसिंहोऽथ वामनः । वराहः सर्ववर्णेषु सौख्यदो हितकारकः ॥ ८ ॥ ────────────────────────────────────────── (१) 'कलि-' इति स्यात् । (२) 'अर्चने शुभौ' इति स्यात् । (३) 'श्रैधरी' इति स्यात् । (४) '-चक्रिक-' इति स्यात् । (५) 'ब्रह्मचार्येक-' इति स्यात् । (६) 'हरि- र्हिरण्यगर्भश्च' इति स्यात् ।