रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 293, कुल 335 में से
संदर्भ में पढ़ें१४ रूपमण्डने [ वासुदेवः ] वासुदेवो (१)गदां शङ्खं चक्रपद्मघरो मतः । [ केशवः ] केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९ ॥ [ नारायणः ] नारायणः कम्बु(२)पलगदाचक्रधरो भवेत् । [ माधवः ] माधवस्तु गदां चक्रं शङ्खं वहति पङ्कजम् ॥ १० ॥ [ पुरुषोत्तमः ] पुरुषोत्तमस्तु चक्रं पद्मं शङ्खं गदां दधत् । [ अधोक्षजः ] अधोक्षजः सरसिजं गदां शङ्खं सुदर्शनम् ॥ ११ ॥ [ सङ्कर्षणः ] सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् । [ गोविन्दः ] गोविन्दो धरते चक्रं गदां पद्मं च कम्बुना ॥ १२ ॥ [ विष्णुः ] विष्णुः कौमोदकीं पद्मं पाञ्चजन्यं सुदर्शनम् । [ मधुसूदनः ] मधुसूदनस्तु चक्रं शङ्खं सरसिजं गदाम् ॥ १३ ॥ [ अच्युतः ] अच्युतस्तु गदापद्मचक्रशङ्खैः समन्वितः । [ उपेन्द्रः ] उपेन्द्रो वहते शङ्खं गदां चक्रं कुशेशयम् ॥ १४ ॥ (१) ‘गदा-शङ्ख-चक्र-पद्म-’ इति स्यात् । (२) ‘-पद्म-’ इति स्यात् । (३) ‘गदा- कम्बु-’ इति स्यात् ।