रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 294, कुल 335 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः १५ [ प्रद्युम्नः ] प्रद्युम्नश्च (१)चक्रशङ्खं गदाम्भोजानि पाणिभिः । [ त्रिविक्रमः ] त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्त्ति यः ॥ १५ ॥ [ नरसिंहः ] नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । [ जनार्दनः ] जनार्दनोऽम्बुजं चक्रं कम्बुं कौमोदकीं दधौ ॥ १६ ॥ [ वामनः ] वामनस्तु शङ्खचक्रगदापद्मलसत्करः । [ श्रीधरः ] श्रीधरो वारिजं चक्रं गदाशङ्खं दधाति च ॥ १७ ॥ [ अनिरुद्धः ] अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् । [ हृषीकेशः ] हृषीकेशो गदां चक्रं पद्मशङ्खं च धारयन् ॥ १८ ॥ [ पद्मनाभः ] पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि । [ दामोदरः ] दामोदरोऽम्बुजं शङ्खं गदां धत्ते सुदर्शनम् ॥ १९ ॥ [ हरिः ] हरिर्धारयते कम्बुं चक्रं पद्मं तथा गदाम् । [ कृष्णः ] कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥ एताः सुमूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात् । (वासुदेवादिर्वाणाः स्युः षंडेते तददादयः ?) ॥ २१ ॥ (१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् ।