रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 296, कुल 335 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः १७ तन्नाभिपङ्कजे धाता ( श्रीभूमिवशिरोन्थिगे ? ) । निध्यक्षादिस्वरूपाणि पार्श्वयोर्मधुकैटभौ ॥ ३० ॥ इति जलशयनः । अथ शालिग्रामपरीक्षा [ पूज्यशिलालक्षणम् ] नागभोगसमाकारा शिला सूक्ष्मा च या भवेत् । पूजनीया प्रयत्नेन स्थिरा स्निग्धा सुवर्तुला ॥ ३१ ॥ तत्राप्यामलकीमानात् सूक्ष्मा चातीव या भवेत् । तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ ३२ ॥ यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् । तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ ३३ ॥ [ त्याज्यशिलालक्षणम् ] कपिला कर्बुरा भग्ना सूक्ष्मा(१)छिन्नाकुला च या । रेखाकुलाऽस्थिरा स्थूला बहुचक्रैकचक्रिका ॥ ३४ ॥ बृहन्मुखी बृहच्चक्रा बद्धचक्रा च या पुनः । (२)बद्धचक्राऽथ वा स्याद् भिन्नचक्रा त्वधोमुखी ॥ ३५ ॥ दग्धा सुरक्ता चापूज्या भीषणा पङ्क्तिचक्रिका । पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ ३६ ॥ [ तत्र मतान्तरम् ] खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना प्रभेदिता । शालिग्रामसमुद्भूता शिला दोषावहा नहि ॥ ३७ ॥ [ वर्णभेदात् फलविशेषकथनम् ] स्निग्धा सिद्धिकरी मुद्रा कृष्णा कीर्तिप्रदायका । पाण्डुरा पापदहना (३)पिता पुत्रप्रदायका ॥ ३८ ॥ नीला दिशति (४)लक्ष्मी च रक्तभोगप्रदायिनी । [ चक्रविशेषे वर्णभेदः ] कपिलं नारसिंहञ्च वामनं (५)चातसन्निभम् ॥ ३९ ॥ (१) ‘छिद्राकुला’ इति स्यात् । ‘-च्छिन्नाकुला’ इति वा कथञ्चित् सङ्गच्छत एव । (२) ‘लग्नचक्राऽथ वा या स्याद्’ इति स्यात् । (३) ‘पीता’ इति स्यात् । (४) ‘लक्ष्मीं च रक्ता’ इति स्यात् । (५) ‘पीतसन्निभम्’ इति स्यात् । रूप—३