भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 299, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 299

२० रूपमण्डने शृङ्गी वामेषु हस्तेषु योगमुद्रा (१)करद्वयम् । नरञ्च नारसिंहञ्च शूकरं कपिलाननम् ॥ ६२ ॥ इति त्रैलोक्यमोहनः । दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः । गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥ ६३ ॥ ईशाने स्थापयेद् विष्णुमाग्नेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभञ्च वायव्ये माधवं तथा ॥ ६४ ॥ केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः । सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥ ६५ ॥ दशावतारसंयुक्तः प्रोक्तो जलशयोऽथवा । अग्रतः शूकरः स्थाप्यः सर्वदेवमयः शुभः ॥ ६६ ॥ इति विष्ण्वायतनम् । प्रतिहारांस्ततो वक्ष्ये चतसृणां दिशां क्रमात् । वामनाकाररूपास्ते कर्तव्याः सर्वतः शुभाः ॥ ६७ ॥ (२)तर्जनी शङ्खचक्रे च चण्डो दण्डं दधत् क्रमात् । वामे स्थाने प्रचण्डोऽस्यापसव्ये दक्षिणे शुभः ॥ ६८ ॥ पद्मं खड्गं खेटकञ्च क्रमाद् बिभ्रद् गदां (३)च यः । (४)विलोमे पद्मगदयोर्विजयस्तौ (५)क्रमाल्लिखेन्न्यसेत् ॥ ६९ ॥ (६)तर्जनी बाणचापौ च गदां धाता च सृष्टितः । (७)मुदापसव्ये तैरस्त्रैर्विधाता वाम-दक्षयोः ॥ ७० ॥ तर्जनीकमलं शङ्खं गदां भद्रः क्रमाद् दधत् । (८)शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमान्न्यसेत् ॥ ७१ ॥ इति विष्णुप्रतीहाराः । इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने विष्णुमू(र्त्या?र्त्त्य)धिकारस्तृतीयोऽध्यायः ॥ ३ ॥ (१) 'करद्वये' इति स्यात् । (२) 'तर्जनीं' इति स्यात् । (३) 'जयः' इति स्यात् । (४) 'विलोमैः' इति स्यात् । (५) 'क्रमाल्लिखेत्' इति 'क्रमान्न्यसेत्' इति वा स्यात् । (६) 'तर्जनीं' इति स्यात् । (७) 'सव्येऽपसव्ये' इति स्यात् । (८) 'सव्यापसव्य-' इति स्यात् ।

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 299, कुल 335 में से · BharatKosha