रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 299, कुल 335 में से
संदर्भ में पढ़ें२० रूपमण्डने शृङ्गी वामेषु हस्तेषु योगमुद्रा (१)करद्वयम् । नरञ्च नारसिंहञ्च शूकरं कपिलाननम् ॥ ६२ ॥ इति त्रैलोक्यमोहनः । दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः । गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥ ६३ ॥ ईशाने स्थापयेद् विष्णुमाग्नेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभञ्च वायव्ये माधवं तथा ॥ ६४ ॥ केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः । सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥ ६५ ॥ दशावतारसंयुक्तः प्रोक्तो जलशयोऽथवा । अग्रतः शूकरः स्थाप्यः सर्वदेवमयः शुभः ॥ ६६ ॥ इति विष्ण्वायतनम् । प्रतिहारांस्ततो वक्ष्ये चतसृणां दिशां क्रमात् । वामनाकाररूपास्ते कर्तव्याः सर्वतः शुभाः ॥ ६७ ॥ (२)तर्जनी शङ्खचक्रे च चण्डो दण्डं दधत् क्रमात् । वामे स्थाने प्रचण्डोऽस्यापसव्ये दक्षिणे शुभः ॥ ६८ ॥ पद्मं खड्गं खेटकञ्च क्रमाद् बिभ्रद् गदां (३)च यः । (४)विलोमे पद्मगदयोर्विजयस्तौ (५)क्रमाल्लिखेन्न्यसेत् ॥ ६९ ॥ (६)तर्जनी बाणचापौ च गदां धाता च सृष्टितः । (७)मुदापसव्ये तैरस्त्रैर्विधाता वाम-दक्षयोः ॥ ७० ॥ तर्जनीकमलं शङ्खं गदां भद्रः क्रमाद् दधत् । (८)शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमान्न्यसेत् ॥ ७१ ॥ इति विष्णुप्रतीहाराः । इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने विष्णुमू(र्त्या?र्त्त्य)धिकारस्तृतीयोऽध्यायः ॥ ३ ॥ (१) 'करद्वये' इति स्यात् । (२) 'तर्जनीं' इति स्यात् । (३) 'जयः' इति स्यात् । (४) 'विलोमैः' इति स्यात् । (५) 'क्रमाल्लिखेत्' इति 'क्रमान्न्यसेत्' इति वा स्यात् । (६) 'तर्जनीं' इति स्यात् । (७) 'सव्येऽपसव्ये' इति स्यात् । (८) 'सव्यापसव्य-' इति स्यात् ।