रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 300, कुल 335 में से
संदर्भ में पढ़ें[ शिवमूर्त्तिशिवलिङ्गलक्षणाधिकाराख्यः ] चतुर्थोऽध्यायः अथ शिवमूर्त्तयः [ द्वादश शिवमूर्त्तयः ] शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । जटाभारयुतं कुर्याद् बालेन्दुकृतशेखरम् ॥ १ ॥ त्रिलोचनं सौम्यमुखं कुण्डलाभ्यामलङ्कृतम् । सद्योजातं महोत्साहं वरदाभयपाणिनम् ॥ २ ॥ इति सद्योजातः [१] । रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ३ ॥ जटाचन्द्रधरं कुर्यात्त्रिनेत्रं तुङ्गनासिकम् । वामदेवं महाबाहुं खड्गखेटकधारिणम् ॥ ४ ॥ इति वामदेवः [२] । दंष्ट्राकरालवदनं सर्पशीर्षं त्रिलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमण्डितम् ॥ ५ ॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । योनसं(?) कटिसूत्रेण गले वृश्चिकमालिकम् ॥ ६ ॥ नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । पिङ्गभ्रूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥ ७ ॥ (१)तक्षकं मुष्टिकञ्चैव पादयोस्तस्य नूपुरौ । अघोररूपकं कुर्यात् कालरूपमिवापरम् ॥ ८ ॥ (१) 'तक्षको मुष्टिकश्चैव' इति स्यात् ।