रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 311, कुल 335 में से
संदर्भ में पढ़ें३२ रूपमण्डने मातुलिङ्गञ्च नागेन्द्रं डमरुं बीजपूरकम् । नन्दी मुकुटशोभाढ्यः (१)सर्वाभरणभूषितः ॥ १०० ॥ खट्वाङ्गञ्च कपालञ्च डमरुं बीजपूरकम् । दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ १०१ ॥ इति पूर्वप्रतिहारौ । तर्जनी च त्रिशूलञ्च डमरुं गजमेव च । हेरम्बो वामभागे स्याद् भृङ्गी दक्षिणतः स्मृतः ॥ १०२ ॥ गजं डमरुखट्वाङ्गं तर्जनीं वामहस्ततः । उभौ च दक्षिणे द्वारे भृङ्गी दक्षिणतः स्मृतः ॥ १०३ ॥ इति दक्षिणप्रतिहारौ । लिशूलं डमरुञ्चैव खट्वाङ्गं च कपालकम् । कपालं डमरुं दन्तं बीजपूरं तथा दधत् ॥ १०४ ॥ दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा । [ इति पश्चिमप्रतीहारौ ] मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकौ ॥ १०५ ॥ सितो वामेऽसितो दक्षे उत्तरद्वारसंस्थितौ । पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् ॥ १०६ ॥ [ इत्युत्तरप्रतीहारौ ] इति (२)शिवप्रतिहारौ । इति श्रीसूत्र × × मण्डनविरचिते वास्तुशास्त्रे रूपमण्डने शिवमूर्त्तिशिवलिङ्ग- लक्षणाधिकारश्चतुर्थोऽध्यायः ॥ ४ ॥ (१) 'सर्पाभरण-' इति स्यात् । (२) 'शिवप्रतीहाराः' इति स्यात् ।