रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 310, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ३१ (१)त्रिंशोदंशस्तु पिण्ड्याश्च जगत्याश्च परिक्षिपेत् । ऊर्द्धाधो (जाड्यकुम्भस्य ?) तन्मध्ये कनकं भवेत् ॥ ९० ॥ (अर्द्धा ?) दैर्घ्यसमा दैर्घ्ये लिङ्गायामयता भवेत् । यस्य देवस्य या पत्नी पीठे तां परिकल्पयेत् ॥ ९१ ॥ इति पीठिका । मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रञ्चतुर्मुखम् । सम्मुखं चैकवक्त्रं स्यात्त्रिवक्त्रे पृष्ठतो नहि ॥ ९२ ॥ पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरम् । याम्यं कृष्णं करालं स्यात् प्राच्यां दीप्ताग्निसन्निभम् ॥ ९३ ॥ सद्यो वामं तथाऽघोरं तत्पुरुषं चतुर्थकम् । पञ्चमञ्च तथेशानं योगिना(२)मथ गोचरम् ॥ ९४ ॥ इति मुखलिङ्गम् । वामे गणाधिपः स्थाप्यो दक्षिणे पार्वती तथा । नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ९५ ॥ मातृभिर्मातृकास्थानं कारयेद्दक्षिणां दिशम् । सौम्ये शान्तिगृहं कुर्याद् यक्षाधीशांस्तु पश्चिमे ॥ ९६ ॥ इत्येकद्वारशिवायतनम् । (३) वामहस्ते गृहं कुर्याद् यशोध्वारञ्च दक्षिणे । मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानञ्च दक्षिणे ॥ ९७ ॥ वामे देवी महालक्ष्मीरुमा (४) × भैरवस्तथा । (५)ब्रह्मविष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ ९८ ॥ इन्द्रादित्यौ च (६)कर्णौ च आग्नेयां स्कन्द एव च । ईशाने (७)विघ्नराजस्य धूम्र ईशानगोचरे ॥ ९९ ॥ इति चतुर्मुखशिवायतनम् । (१) 'त्रिंशदंशन्तु पिण्ड्याञ्च' इति स्यात् । (२) '-मध्यगोचरम्' इत्यन्यत्र । (३) 'वामे स्नानगृहं' इति स्यात् । (४) त्रुटितस्थाने 'च' 'वै' वा स्यात् । (५) 'ब्रह्मविष्णू तथा रुद्रं' इति स्यात् । (६) 'कर्णे च आग्नेय्यां' इति स्यात् । (७) 'विघ्नराजोऽस्य' इति स्यात् ।