रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 309, कुल 335 में से
संदर्भ में पढ़ें३० रूपमण्डने शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले । लक्षवारं नर्मदायां कोटिं च कुरुजाङ्गले ॥ ८० ॥ कृत्वा स्नानं तथा पिण्डं होमं दानं च भोजनम् । (१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥ (२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च । स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥ [ इति बाणलिङ्गप्रशंसा ] लिङ्गायामसमं दैर्घ्ये उच्छ्रायः पीठिकासमः । (४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥ बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये । शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥ [ इति वाहनविधिः ] विस्तारस्य विभागेन प्रणालं चाधिकं मतम् । (६)तदर्धे नम्रविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥ इति लिङ्गानि । पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् । उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥ जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् । आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥ उपर्युपरि पीठानां सन्धिरङ्गावसानके । (८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥ चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता । उन्नता दर्पणाकारा बाह्ये मेखलयाऽन्विता ॥ ८९ ॥ (१) ‘गुणितं’ इति स्यात् । (२) ‘धातवे’ इति ‘घटे वै’ इति वा स्यात् । (३) ‘बाणे पञ्चशतेषु च’ इति स्यात् । (४) ‘समभागायतो वृषः’ इति स्यात् । (५) ‘स्वयम्भूमुख-’ इति स्यात् । (६) ‘तदर्धेनाग्रविस्तारं’ इति स्यात् । (७) ‘नेष्टमन्योन्य-’ इति स्यात् । (८) ‘नालस्य’ इति स्यात् ।