भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 309, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 309

३० रूपमण्डने शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले । लक्षवारं नर्मदायां कोटिं च कुरुजाङ्गले ॥ ८० ॥ कृत्वा स्नानं तथा पिण्डं होमं दानं च भोजनम् । (१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥ (२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च । स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥ [ इति बाणलिङ्गप्रशंसा ] लिङ्गायामसमं दैर्घ्ये उच्छ्रायः पीठिकासमः । (४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥ बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये । शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥ [ इति वाहनविधिः ] विस्तारस्य विभागेन प्रणालं चाधिकं मतम् । (६)तदर्धे नम्रविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥ इति लिङ्गानि । पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् । उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥ जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् । आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥ उपर्युपरि पीठानां सन्धिरङ्गावसानके । (८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥ चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता । उन्नता दर्पणाकारा बाह्ये मेखलयाऽन्विता ॥ ८९ ॥ (१) ‘गुणितं’ इति स्यात् । (२) ‘धातवे’ इति ‘घटे वै’ इति वा स्यात् । (३) ‘बाणे पञ्चशतेषु च’ इति स्यात् । (४) ‘समभागायतो वृषः’ इति स्यात् । (५) ‘स्वयम्भूमुख-’ इति स्यात् । (६) ‘तदर्धेनाग्रविस्तारं’ इति स्यात् । (७) ‘नेष्टमन्योन्य-’ इति स्यात् । (८) ‘नालस्य’ इति स्यात् ।