रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 319, कुल 335 में से
संदर्भ में पढ़ें४० रूपमण्डने कुमाररूपा कौमारी मयूरवरवाहना । रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५ ॥ इति कौमारी । वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता । चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ६६ ॥ इति वैष्णवी । वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् । (१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७ ॥ गदा चक्रगदा तद्वद्दानवेन्द्रविघातिनी । लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥ इति वाराही । इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥ इति इन्द्राणी । दंष्ट्राला क्षीणदेहा च गर्त्ताक्षा भीमरूपिणी । दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥ अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः । खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥ चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा । द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरान्विता ? ) ॥ ७२ ॥ इति चामुण्डा । वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः । वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् । मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३ ॥ इति सप्त मातरः । (१) 'वराह-' इति स्यात् । (२) '-स्याहिभूषणा' इति स्यात् । (३) 'तासां' इति स्यात् ।