रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 323, कुल 335 में से
संदर्भ में पढ़ें४४ रूपमण्डने कन्दर्पी निर्वाणी बाला धारिणी (१)धरणाप्रिया । नादरक्ता च गन्धर्वीऽम्बिका (२)पद्मवती तथा । सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥ इति जिनानां (४)यक्षणीनामानि । [ एतेषां लक्षणम् , तत्र गोमुखः ] (५)रिषभो गोमुखो यक्षो(६)हेमवर्णो गजानना । (७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥ [ चक्रेश्वरी ] चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका । वरं बाणं (८)चक्रं ( शक्तिशूलमनाकुलम् ? ) ॥ १८ ॥* [ अम्बिका ] सिंहारूढाऽम्बिका पीता(मलुंबि ?)नागपाशकम् । अङ्कुशञ्च तथा(९)पुत्रं तथा हस्तेष्वनुक्रमात् ॥ १९ ॥ [ पार्श्वः ] (१०)पार्श्वे स्यात् पार्श्वनानाथस्य कूर्मारूढा गजानना । बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥ [ पद्मावती ] (११)रक्तायसावती पूर्णा कुर्कुटोरगचतुर्भुजा । (१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥
(१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमात् शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं करेषु च' इति स्यात् । (८) 'पाशचक्रं' 'चक्रपाशं' वा स्यात् । (९) 'फलं' इति स्यात् । (१०) 'पार्श्वः स्यात् पार्श्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मा- वती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् ।
- अत्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् त्रुटितम् इति सम्भाव्यते । यतोऽत्र ग्रन्थकृता संक्षेपबुद्ध्या जिनोपासकानां यक्षाणां यक्षिणीनाञ्च तावन्ति लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' ( २९) इत्यग्रिमप्रतिज्ञाग्रन्थानु- सारेण आदिनाथ (ऋषभ)-नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेध-पार्श्व- मातङ्गाह्नो यक्षान्, चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितुं प्रवृत्तम् इति विज्ञायते । नास्ति चास्य 'गोमेध'मलक्षयतः प्रतिज्ञाताथपरिसमाप्तिरित्यवसेयम् ।