रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 324, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः ४५ [ मातङ्गः ] महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥ [ सिद्धायका ] सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा । पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥ अथ द्वितीयभेदेन चक्रेश्वरी द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च । मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥ [ जिनेषु चतुर्णां प्राधान्यकथनम् ] जिनस्य मूर्त्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥ [ एषां नामानि ] श्रीआदिनाथो नेमिश्च (५)पर्वे वीरश्चतुर्थकः । (६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥ कैलासं सोमशरणं सिद्धिवर्तिं सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥ [ जिनप्रतीहारनामानि ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा । धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥ इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः । [ प्रतीहाराणामायुधानि ] फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥ द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः । ( तदा युद्धयोगाद्भव्रा त्रिपञ्चादिफणोर्ध्वगाः ? ) ॥ ३० ॥ (१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् । (३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्श्वो वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय-' इति स्यात् ।