रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 325, कुल 335 में से
संदर्भ में पढ़ें४६ रूपमण्डने धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः । यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥ (२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः । इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥ (३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः । छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)र्युताः ॥ ३३ ॥ अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः । सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥ मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी । द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥ दैर्घ्ये तु प्रतिमा तुल्या तयोरूर्ध्वे तु तोरणम् । वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६ ॥ कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता । तोरणं पञ्चधा प्रोक्तं रथिकार्य च देवताः ॥ ३७ ॥ ललितं चेतिकारं त्रिरथं वलितोदरम् । श्रीपुञ्जं पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥ रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९ ॥ इति परिकरः । श्रीमद्देशे (६)मैदपाठाभिधाने (७)क्षेलाख्येऽभूत् सूत्रधारो वरिष्ठः । पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥ इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः । ॥ समाप्तश्चायं ग्रन्थः ॥ (१) 'शुभोदयाः' इति स्यात् । (२) 'सुनामो' इति स्यात् । (३) 'नगरादिपुर-' इति स्यात् । (४) '-र्युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् । (६) 'मेद-' इति स्यात् । (७) 'क्षेताख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः' इत्येतन्मात्रं साधु ।