रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 52, कुल 335 में से
संदर्भ में पढ़ें[ 43 ] Śl. 44. मन्येऽत्र, 'वृक्षवैकृतमधिकृत्य किञ्चिदुक्तमासीत् । Cf. VD. II, Adh. 136, Śl. 4, 5 ; 6, 40 etc. ; and BS. Adh. 46, Śl. 25 etc. तथास्य श्लोकस्य प्रथमाद्धेस्य पूरणमेवं भवितुं शक्यते—“स्वदेशध्वंसः स्फोटे भवेत्तथा देवपादपानाम् ॥ ४४ ॥” Śl. 45—47. Compare VD. II, Adhyāya 135, Śl. 1-5, and II, Adh. 144 Śl. 1-2. Śl. 50—57. Cf. also VD. II, Adh. 135, Śl, 13. 'बृहत्संहिता’- मनुसृत्य संशोधनं कार्यमिति पुनः पाठप्रदर्शनेनाऽलम् । एतेऽत्र श्लोकाः अपपाठबहुलाः । 'विशाख’स्तावत् स्कन्दस्यैव चतुर्भेदस्याऽन्यतमः । See VD. III, Adh. 71, Śl. 3. Śl. 58. मन्ये—“वत्से नाऽभिमुखे कुर्याद् यात्रामद्वारे च वास्तुनः ।” इति भवितव्यम् । तथा “गुर्विणीनाम्” इति, 'गृहारम्भे वत्सचक्र'विचारस्योपयोगात् । तथा यात्राकाले, “धेनुर्वत्सप्रयुक्ता”द्विवचनेन धेनुवत्सप्रभृतिदर्शनस्य च माङ्गलिकत्वात् । Compare, also ŚR. II, Adh. I, Śl. 6 ff. तथा वास्तुराजवल्लभे १९शाध्याये “गृहारम्भे वत्सचक्रम् । सौरादिकं त्रितयमस्य शिरःप्रयुक्तं भानां ततो द्वितयमग्रपदे च दक्षे । कुक्षौ चतुष्कमपि दक्षिणगे प्रशस्तं पृष्ठे त्रयं त्रितयमप्यथ पुच्छभागे ॥ २३ ॥ पाश्चात्यपादयुगले द्वितयं द्वयं स्याच्चत्वारि भानि च ततः खलु वामकुक्षौ । द्वे चाग्रवामचरणे द्वितयं च वक्त्रे त्वेवं वदन्ति मुनयः खलु वत्सचक्रम् ॥ २४ ॥ शीर्षस्थिते सुखनिवृत्तिरथाग्रपादे शून्यं च दक्षिणककुक्षिगते धनं स्यात् । पृष्ठे शुभं भयकरं खलु पुच्छगे मे पाश्चात्यपादयुगले विविधा गुणाः स्युः ॥ २५ ॥ दुःखं भयं स्यात्किल वामकुक्षौ भयं विनाशश्च मुखेऽग्रपादे । विद्वद्भिरुवं खलु वास्तुखाते वत्सस्य चक्रेण निरीक्षणीयम् ॥ २६ ॥” Śl. 59b. “विशेषकाश्च” इति भवेत् । द्वितीयोऽध्यायः । ( Chapter II. ) Śl. 1. Cf. Vāsturājavallabha, Adh. 10, Śl. 1 छाया-वा-णू-रेणु-केशाग्र-लिक्षा- यूका प्रोक्ता स्याद्यवस्त्वङ्गुलश्च । छायादिभ्योऽष्टघ्नमानस्य वृद्धिः प्रोक्तो हस्तो जैनसंख्याङ्गुलैश्च ॥ १ ॥