रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 53, कुल 335 में से
संदर्भ में पढ़ें[ 44 ] Śl. 2 corresponds to ŚR. II, Adh. 4, Śl. 51 Śl. 4. “कीर्त्तिमुखं त(ता)लुमुखम्” इत्यपि पाठो भवितुमर्हति। कीर्त्तिमुखं तावत् “नरसिंहमिवापरम्”, व्यात्तमुखोऽलङ्करणविशेषः। तस्योत्पत्तिः प्रयोगश्च शिल्पशास्त्रेष्वनु- सन्धेयः$^{96}$। Śl. 4-13 a. Compare ŚR., Part II, Adh. 4, Śl. 37—50. Śl 7b. “नीला” इति भवितव्यम्, ‘लीले’ति नाम्न्याः देव्याः कुत्रापि अनुपलब्भात्। तथा “पाञ्चरात्रागमे$^{97}$ नीला, श्रीः, पुष्टिश्च” पर-विष्णोः शक्तिरूपेण निर्दिष्टाः। नामैकदेशग्रहणेन यदि च ‘नीला’शब्देन ‘नीलसरस्वतीति नाम्न्याः तारायाः’ ग्रहणं भवेत् तथापि तान्त्रिकदेवतानां नास्ति अत्र प्रसङ्गः। सत्यं ‘बृहद्ब्रह्मसंहिता’यां २य-पादे ४थेऽध्याये १४४—१५५श्लोकेषु ‘लीला’देव्याः(?) प्रसङ्गोऽस्ति। तत्राऽपि ‘लोला’-पदस्य ‘नीला’ इति पाठान्तरं दृश्यते $^{98}$। Śl 9a. “जिनेन्द्राश्च” इति पाठः स्यात्, ‘तकार’-‘नकार’योर्भ्रमसम्भवात्; अत्रैव ग्रन्थे जिनप्रतिमानां च स्थापनविधानात्। ४र्थाध्याये २९-श्लोके द्रष्टव्यम्। तृतीयोऽध्यायः। (Chapter III.) Śl. 1-2 correspond to MM. Adh. 33, śl. 38-40. Śl. 9-17. अथ देवतादृष्टिस्थानम्। Compare MM. Adh. 7, śl. 30ff, पददेवताविन्यासः। “समानि यानि भागानि चतुःषष्टिवदाचरेत्। असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत् ॥ ३० ॥” इत्यारभ्याध्यायान्तरपर्यन्तं द्रष्टव्यम्। 96. O. C. Ganguly : The Kīrtimukham, in the Rūpam (now defunct), No. 1. The Ind. Soc. of Oriental Art, Calcutta. 97. See F. Otto Schrader : Introduction to the Pāñcarātra and the Ahirbudhnya-Saṃhitā. Adyar, 1916, pp. 53—55. 98. बृहद्ब्रह्मसंहिता। नारदपञ्चरात्रान्तर्गता। Ānandāśram Skt. Series, No. 68, 1912. PP. 68—69. तत्रैव १७३-श्लोकः— “गोपायती जनान्वत्सात् प्रपन्नानिव दोषतः। अतो गोपीति विख्याता १लीलाख्या परदेवता ॥” १नीला०।