रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 54, कुल 335 में से
संदर्भ में पढ़ें[ 45 ] Śl. 18b. “वाक्यभेदो न कर्तव्यः” इति मनसि निधायैकवाक्यताञ्च अनुसन्ध्यायैवं संशोधनं कृतम् ॥ १८ ॥ Śl. 24-27. [ देवतास्थापने दिङ्निर्णयः ] Compare Mānasāra, IX, 387 ff. ; also, Vāsturājavallabha, IV, 13. “ब्रह्मविष्णुशिवेन्द्रभास्करगृहाः पूर्वापरास्याः शुभाः प्रोक्तौ सर्वदिशामुखौ शिवजिनौ विष्णुर्विधाता तथा । चामुण्डाग्रहमातरो धनपतिर्द्वैमातुरो भैरवो देवा दक्षिणदिङ्मुखाः कपिवरो नैर्ऋत्यवक्त्रो भवेत् ॥ १३ ॥” Śl. 28. यथाशक्ति पाठशुद्धिः प्रदर्श्यते लिपिशास्त्रादीननुसृत्य । “ज्ञात्वा सर्वं(म)स्थापि येन रीत्या देवा दैत्या मानुषाद्याश्च सर्वे । ह(ह्या)त्मानं व्यापकं सृष्टिकारं स्थापी(पि)-दृष्ट्वा (द्रष्टा)-विश्वकर्मां(र्माणं) श(तं) वन्द्याः ॥ २८ ॥ दृष्टः, आत्मा येन तम् । स्थापी स्थापकः, शिल्पी । द्रष्टा कविः, विश्वकर्मा । हं वन्द्याः वन्दनं कुर्युः । सर्वत्र शिल्पशास्त्रेषु विकरणव्यत्ययः पदव्यत्ययश्च । चतुर्थोऽध्यायः । ( Chapter IV. ) Śl. 1. दृष्टं शिवस्यैव चन्द्रशेखरत्वम् । तथा मन्ये, ग्रन्थमध्ये कुत्र कुत्रचित् ‘द’-कार- ‘र-’कार-योर्भ्रान्तिदर्शनात् , “स्तोकमात्रा संशुद्धि”-रिति न्यायात् , “चारुशेखरः” इति पाठः साधुत्तरः । Śl. 2. सत्यं ‘रूपमण्डने’⁹⁹ ‘प्रभेदेने’ति पाठोऽस्ति । तथापि ग्रन्थकारः यथेच्छं परिवर्तनं कृतवानिति मत्वा ‘प्रभेदोक्त्या’ इति पाठोऽस्माभिरङ्गीक्रियते । Śl. 3-4 correspond to ‘रूपमण्डनम्’— “दक्षिणाधः करात् स्रष्टा जपमालां तथा स्रुचम् । पुस्तं कमण्डलुं धत्ते सकूर्चः कमलासनः ॥” 99. The Rūpamaṇḍanam has been quoted at length by T. A. Gopi- natha Rao : Elements of Hindu Iconography. We have depended chiefly on these quotations, they being authentic and providing another version.