भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 63, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 63

[ 54 ] (४२श्लोके) 'तनुञ्चैक-नि०—' (४४) 'ऋ(ज्वा)मुखगतः' 120 । (४६) 'एवंविधोऽयं कर्तव्यः — ०प्रदः ॥' (४८) '(सृ)गालोद्भू' इत्युचिताः पाठाः स्युः । कारकाणां क्रमभङ्गश्च परिहर्तव्यः । Śl. 52, 53 ; 54, 55. 'रूपमण्डने'ऽपि 121 प्रायशः एवंरूपाः सन्ति । टीकाकृद्भिरपपाठाः शोधिताः । Śl. 56, 57. 'विष्णुधर्मोत्तरे' 122 ध्यानमेतत् यथार्थं प्राप्यते । Śl. 58. अत्रापि ग्रन्थस्य वैशिष्ट्यं वर्त्तते । कृष्णशङ्करयोः संयोगमूर्त्तीनामन्य- त्राऽदर्शनात् । मन्ये, ५८ख-श्लोकार्द्धे 'ज्ञेया द्विजन्मनो बुधैः' ॥ इति पाठो भवेत् । तत्र 'द्विज' इत्यक्षरद्वयं तु निश्चितमेव । Śl. 59, 60. 'शिल्परत्ने' उत्तरभागे, अ० १ श्लो० २० आरभ्य, अनन्तरं, तथा अ० २ श्लो० १३, १४ इत्येते द्रष्टव्याः । Śl. 65, 66. 'शि० र०' उ०, अ० १ श्लो० ४२ आरभ्य अनन्तरं, च द्रष्टव्याः । तत्र 'वीर्यक' इतिनामा कोऽपि वृक्षो नास्ति । 'वीरिः, चीरः, विरश्व' बिल्वान्तरम् आयुर्वेदीय- ( वैद्यक- )निघण्टुषु 123 प्राप्यते । तेनाऽस्माभिः 'वीर्यक'-पाठः प्रामादिको न वा निश्चेतुं नैव शक्यते । अन्यः 'वीरा'-तामलकी-तमालोऽप्यस्ति निघण्टुषु । क्षुपविशेषोऽयं तक्षणकर्मणि अनुपयोगी । Śl. 73a. 'मृत्युञ्जय-विजय[ े ] क्रमात् ।' इति पाठः स्यात् । Śl. 84-86 ; 87-89. 'मयमते' अ० ३३श्लो० ४०—४२, तथा ४३—४५श्लोकाः तुलनीयाः । मन्ये, तस्मादेव ग्रन्थात् एते गृहीताः । तत्र पाठभेदाः— (८४)—शिवायतम् ।— मानानि ॥ (८६) भूतगङ्गाग्नि०— । —सार्वकामिकं— ॥ Śl. 98, 99. 'शि० र०' उ० 124, अ० २ श्लो० ११३—११७क-श्लोकाः ; तथा 'मयमते' अ० ३३-श्लो० ६२ख-६३-श्लोकाः तुलनीयाः । मन्ये, पुस्तकयोरेतयोः श्लोका एते गृहीताः । 'शिल्परत्ने एकोनत्रिंशाध्याये' ( ११३—११७क ) श्लोकानां च उल्लेखो दृश्यते । 120. The ऋजु Ṛju and आमुख Āmukha are the names of स्थान poses and स्थानक postures for images. Cf. Śilparatnam, Bk. 1, Adh. 46, Śl, 61. 'ऋजु स्यात् संमुखं स्थानम्'. 121. T. A. Gopinatha Rao : Op. cit. 122. Ib. : Op. cit. 123. See राजनिघण्टसहितो धन्वन्तरीयनिघण्टुः । आनन्दाश्रमसंस्कृतग्रन्थावलि, ग्रन्थाङ्क ३३ । शक १८१८ । Also see, वनौषधिदर्पण । अभिनवनिघण्टु । राजवैद्य श्रीविराजाचरण गुप्त काव्यतीर्थ कविभूषणकृत । द्वितीय संस्करण । वङ्गाब्द १३२४ । 124. Also quoted in T. A. Gopinatha Rao : Op. cit., (but) from (a different version of) Śilparatna, Adh. 29.