भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 70, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 70

[ ६१ ] (९८ख) वेतालः करटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥ (९९क) धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । Śl. 101—106. 'हेमाद्रिव्रतखण्डे'¹⁴³ 'विष्णुधर्मोत्तर'दुद्धृताः । कुत्र कुत्रापि पाठभेदाः सन्ति । केचन श्लोकास्त्यक्ताश्च । तत्र पाठभेदाः— ( १०१क-अर्धश्लोके ) दिव्यरूपाम्बरधरा— । (१०२) पृथक्चतु०— — सिंहासना —। सिंहासनस्थं कर्तव्यं— ॥ ( १०३क )—महाभाग !— सा स्थिता । (१०४) —— तस्याधः— । —०श्रेष्ठ ! —०स्थितम् ॥ (१०५)— —०स्था राजन् — । तस्याश्च द्वौ — द्विज ! ॥ (१०६क) — तत्पृष्ठे कुञ्जरद्वयम् । Śl. 107, 108. 'विश्वकर्मशास्त्रा'त् समुद्धृत इति प्रतीयते । तत्र भेदोऽप्यस्ति । श्लोकार्धं परित्यक्तं च । तद्यथा— (१०७क) कोह्लापुरं विनाप्यत्र —०ोच्यते । (१०८) —०की ततः । वामोर्ध्वे — —॥ [ बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये । ] Śl. 109—117. ध्यानमेतत् प्रायेण 'मत्स्यपुराणीय¹⁴⁵ अ० २६२' 'कात्या- यनी'-ध्यानमनुवर्त्तते । सदृशध्यानानि अन्यत्र च दृश्यन्ते, तद्यथा 'अभिलषितार्थचिन्ता- मणौ'¹⁴⁶ 'मयदीपिकायाम'पि¹⁴⁷ । तेन मूलध्यानस्यास्य सार्वभौमिकता ज्ञायते । पाठभेद- प्रदर्शनं पिष्टपेषणमात्रमिति मत्वा तस्मात् विरमामः । केवलं ( १०९ख-श्लोकार्धोक्तस्य ) 'त्रयाणामपि देवानामनुकारानुकारिणी' इति विशेषणं, 'अभिलषितार्थचिन्तामणौ' धृतं 'शिवनारायणात्मिका'-विशेषणं च मनसि आकारयतीति प्रदर्शयामः । Śl. 118. 'हस्तक'-शब्दस्यार्थस्तावत् पारिभाषिकः । 'करणं' 'मुद्रा' वाऽस्य समानार्थकशब्दौ । विनियोगश्च 'हस्तका'नामभिनये । तेन 'मस्तके'ति पाठो न कदापि अनुमोदनीयः । 143. Hemādri : Caturvargacintā-maṇi (Ed. Bibliotheca Indica). 144. See T. A. Gopinatha Rao : Op. cit. 145. Matsya-purāṇam. Adh. 262. (Vaṅgavāsī Ed., Cal.). 146. Abhilaṣitārthacintāmaṇi. MSS. No. 69 (Mysore, 1926). Prakara- ṇam 3, Adh. 1, śl. 803—810. 147. T. A. Gopinatha Rao : Op. cit.