भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 71, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 71

[ 62 ] Śl. 119, 120. 'अभिनयदर्पणे¹⁴⁸ नन्दिकेश्वरविरचिते' प्रथमश्लोको द्विरावृत्तौ वर्त्तते। तथा द्वितीयार्धपरिवृत्त्या श्लोकान्तरं वारैकमस्ति। श्लोकद्वयस्यैतस्य उद्धारेण अस्मन्मते दाक्षिणात्यमूलकत्वं 'देवतामूर्त्तिप्रकरण'स्य प्रमाणीभवति, प्रकारान्तरेण। यथाशक्ति सर्वेषामपि अनेकेषां वा, पाठानां विचारं कृत्वा, ग्रन्थकृतो लिखनरीतिमधि- कृत्य किञ्चित् वक्तव्यमस्ति। 'देवतामूर्त्तिप्रकरणं' सङ्कलनमात्रमेव। यथेच्छं हि ग्रन्थकृता पुस्तकान्तरस्थानां ध्यानानां परिवर्त्तनं परिवर्धनं च कृतम्। तन्न तन्त्रोपासना-शास्त्रादिभिरनु- मोद्यते समर्थ्यते वा। तेनास्मन्मते शिल्पिनां कृते वर्णनमात्राण्येतानि, न तु ध्यानरूपाणि। तेन च सर्वथा नैतानि प्रत्यक्षरं ग्रहणयोग्यानि। अन्यदपि वक्तव्यमस्ति—आदर्शपुस्तकं प्रतीको वा भूयशः प्रमादबहुलोऽपपाठपूर्णश्च दृश्यते। मन्ये, द्वितीयस्य आदर्शस्याभावात् पाठोद्धारो न सम्यक्तया सिध्यति। 148. Nandikeśvara's Abhinayadarpaṇam (Ed., Manomohan Ghosh) CSS. No. 5, śl. 37 and 247 ; 36.