रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 95, कुल 335 में से
संदर्भ में पढ़ें८ देवतामूर्त्तिप्रकरणम् स्निग्धा शल्यसहा गभीरनिनदा दिश्याहिताग्रा शिला। ग्राह्या बिम्बविधौ ... ... ... ॥ इति। (अ० १४, ११ श्लो०) दिश्याहिताग्रेति दिशि आहितम् अर्थात्कवस्थितम् अग्रं यस्यास्तादृशीत्यर्थः। दिक्- शब्दश्रुत्या जायमानं जनानां कोणभ्रममपनयन् स्पष्टमाह तत्रैव ग्रन्थकारः— “दुःस्पर्शापदिशं निवेशितशिरोदेशा विवर्ज्या शिला” इति। (श्लो० १०) अपदिशमिति अन्तरालं कोणमित्यर्थः। तथा च अमरः— “क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्” इति। कोणनिवेशितशिराः शिला वर्ज्येत्यर्थः। “कोणशीर्षा शिला त्याज्या भर्तुर्दुःखकरी यतः” (अ० १४, ४ श्लो०) इति च स्पष्टात् स्पष्टतरं तत्रैव। ग्रन्थकृता कृतः समाधिस्तु न युक्तिं सहते। तथा हि—पूर्वोक्तैः काश्यपमयशिल्परत्नादिवचनै- रैकमत्येन शिलायाः प्रागुदगग्रत्वं प्रतिपद्यते, एवञ्च प्रागग्रया शिलया प्रागग्रा, उदगग्रया शिलया चोदगग्रैव प्रतिमा युक्तितः करणीयेति किमिति तं पन्थानमुत्सृज्य ग्रन्थकृता नवीन इव पन्थाः समवलम्बितः किं वा तत्र प्रमाणं तेनोपलब्धमिति न जानीमः। यद्यप्यस्मत्सूचितेऽर्थे स्फुटं कमपि ग्रन्थान्तरसंवादं नोपलभामहे, तथाऽप्येकत्र दृष्टः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायादयमर्थः समर्थयितुं शक्यते। तथा हि, दारवप्रतिमाया उपादानस्य वृक्षस्य यथामूलं यथोर्ध्वं यथापार्श्वञ्च प्रतिमाया अपि शिरःपादादिकं कुर्यादित्युप- लभ्यते। तथा च बृहत्संहितायाम्— लिङ्गं वा प्रतिमा वा यथादिशं यस्मात्। तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथ वाऽधः ॥ ( अ० ५८, ७ श्लो० ) अस्यायमर्थः—लिङ्गं शिवलिङ्गं वा प्रतिमा अर्चा वा यस्माद् द्रुमवद् वृक्षवत् स्थाप्या तस्माद्धेतोर्द्रुमस्य दिश आशाश्चिह्नयितव्याः, एवमूर्ध्वाधरौ भागावपि चिह्नयितव्यौ। अयमर्थः— द्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः। पश्चिमः पश्चिमः। उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधोभागः स एव प्रतिमाया अधोभागः कार्यः। वृक्षस्य य ऊर्ध्वभागः सोऽपि प्रतिमाया ऊर्ध्वभागः कार्य इति तद्विवृतौ भट्टोत्पलः। बृहत्संहिताविवृतिकृद्धृतकाश्यपे च— वृक्षवत् प्रतिमा कार्या प्राग्भागाद्युपलक्षिता। पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत् ॥ इति।