रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 96, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ६ [ आकृतितो ग्राह्यशिलाकथनम् ] निविडा निर्व्रणा मृद्वी सुगन्धा मधुरा शिला । सर्वार्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥७॥ काश्यपशिल्पे तु— वृक्षस्य पूर्वभागे तु मुखं पृष्ठन्तु पश्चिमे । दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् ॥ इति । (अ० ४९, २३ श्लो०) परं तत्र तत्र शिलाया ऊर्ध्वाधःकथनं प्रतिमाया अपि ऊर्ध्वाधोनिर्णयाभिप्रायकम्, अन्यथा तदुक्तेरुपयोगो दुरुपपाद एव स्यात् । एवञ्च मयमते शिलाया अधोऽग्रादिकमभिधाय मुखपृष्ठादि- निर्णयार्थम्— “मुखमुद्धरणेऽधोऽंशमूर्ध्वं भागं शिरो विदुः” इति यदुक्तं तदपि निराकुलं सम्पद्यते । इतरथात्र शिलायाः शिरोमुखादिवचनमव्यावर्त्तकं भवेत् । श्लोके ‘उद्धरणे’ इत्यस्य शिलाहरणे, ‘शिर’ इत्यस्य च मुखपृष्ठभाग इत्यर्थः । व्यक्तमाह काश्यपशिल्पे— “अधोभागं मुखं ख्यातं पृष्ठमूर्ध्वगतं भवेत्” इति । ( अ० ४९, ६८ श्लो० ) मूलश्लोके पश्चिमादिशिरस्कत्वकथनं शयानशिलाभिप्रायेण । दण्डायमानशिलायास्तु भूमिष्ठो- ऽंशो मूलम्, ऊर्ध्वभागश्चाग्रमिति ज्ञेयम् । तदुक्तं मयमते— “अग्रमूर्ध्वमधो मूलं पाषाणस्य स्थितस्य तु” इति । ( अ० ३३, १८ श्लो० ) ७ । निविडा सुश्लिष्टाङ्गसन्धिः, निर्व्रणा स्फोटकाकृतिबिन्दुरहिता । बिन्दुमाह काश्यपः— ............त्रिविधा बिन्दुरेव हि । कृष्णलोहनिभाकारा कृष्णभ्रमरसन्निभा ॥ शिखिपिच्छसमाकारा............॥ इति ( अ