भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 101, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 101

७० साहित्यदर्पणे अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोप- धिको व्यञ्जकः । किं च— तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयवोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥ अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापितानां पदार्थानां संसर्गो- वाक्याद्भासमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकैः संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि- धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।

  1. तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे- ऽपि । गौरवादनन्यलभ्यत्वाच्च । तदृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा- योग्यतामत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं- चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थनिषयस्य शाब्दबोध- विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा- मयमभिप्रायः—'घट करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्पर्यो बोध्यते । तत्र घटपदस्य घटोऽर्थः, अम्प्रत्ययस्य च कर्मता, वृत्तिना तु न कस्यापि, इत्यपदार्थोऽपि वृत्तित्ता तात्पर्यवशादनयो. संसर्गविधया भासते । अन्विताभिधानवादिन. प्राभाक- रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्ति. । व्यवहारेणान्वितस्यैवोपस्थापनाच्चैवेव शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमन्तं व्यक्तिं मध्यमवृद्धे सञ्चारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्त्रयव्यतिरेकाभ्या क्रिया- पदार्थान्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य शक्ति बालोऽवधारयति । तत. प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च गौरवेणान्वयांशपरिहार. । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द- बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेण भासत इति नापदार्थो वाक्यार्थ.' इति वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेपावगमाय आकाङ्क्षादिक कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु- पेयम्' इति ॥ १. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या शक्ति' ग. २ 'पदाना क', ' ' स.