भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 100, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 100

द्वितीयः परिच्छेदः । ६९ एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् । त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥ अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’ इत्यादि । लक्ष्यार्थस्य यथा—‘निःशेषच्युतचन्दनं-’ इत्यादि । व्य- ङ्ग्यार्थस्य यथा—'उअ णिच्चल-' इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज- कत्वं तु प्रपञ्चयिष्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥ यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे- कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥ तद्वैशिष्ट्ये यथा—‘नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि सादरं मयि पश्यति ॥’ अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा- गीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्र्यादिसन्निधीनाम् ॥ त्रैविध्या- दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । ‘असंलक्ष्यक्रमव्यङ्ग्यव्यङ्ग्यादुदाहरणे’ इति शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थ्यायामपि शब्दस्योपयोगित्वनसत्त्वेव तन्मीलना- नन्योभेदवारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरगम्या- यकः । ‘व्यनक्ति’ इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति । सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र यस्याव्यवहितोपपादित्वेन प्रधानत्वं तत्र तत्प्राधान्येनैव तस्या व्यवहार इति भावः । ननु शब्दार्थौ देशान्वितादिरपि व्यङ्ग्यत्वेनोद्देन व्यञ्जकप्रतिपादनमयुक्तमिति चेत् । न । तमपि द्योपायित्वाभिद्यैव व्यञ्जकत्वान्निर्वाहात् । देशान्वितादिषु यद्- विशेषादिरूपप्रकरणाद्युपपादकत्वं शब्दार्थेऽपि देशान्वितादीनां प्रयोजकत्वेन शब्दव्यवहारः । अत एव वक्ष्यति—'पदं देशान्वितादिषु ईर्ष्यादिरोषविशेष- युक्तिः । प्रकरणं नियतमुद्देशं रूपं देशान्विताद्यूहम् ।' इति । अभिधा- दित्रयोपाधिवैशिष्ट्यादित्येतत्प्रपञ्चयितुमाह—अभिधेति । उपा- १. ‘...’ २. ‘...’ ... ...

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 100, कुल 506 में से · BharatKosha