साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 99, कुल 506 में से
संदर्भ में पढ़ें६८ साहित्यदर्पणे विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नका- मुकं प्रत्युच्यते। अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम्। 'भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको- र्भेदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिष्ट्ये यथा— गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ॥' अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काका व्यज्यते। चेष्टावैशिष्ट्ये यथा— ^३ 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्॥' अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्व्यो- त्यते। संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकनिरूपितत्वं वैशिष्ट्यम्, उच्यते व्यज्यते। अत्रैव अस्मिन्नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्य- ज्ञ्जनायाः कारणम्॥ भिन्नेति। शोकहर्षभयादिकृतेत्यर्थः। आकरेभ्य उपजीव्यभर- तादिग्रन्थेष्व॥ सुरभिसमये वसन्तकाले। अपि तर्हीति। अपि खल्वर्थः॥ संकेतेति। विटमुपपतिम्। हसत्प्रफुल्लम्। नेत्राभ्यामर्पितमाकूतमात्माभिप्रायो यत्र तथ्या स्यात्तथा निमीलितमित्यर्थ । यद्वा, हसदिति नेत्रविशेषणम्। एतदेव पद्म- निमीलनस्य नेत्रार्पिताकूतत्वं वैशिष्ट्यम्। चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रह। १. उच्यत इति। व्यञ्जनया प्रतिपाद्यते इत्यर्थः॥ २. काकुरिति। कायत्यर्थान्तरमिति काकुः। यद्वा काकुर्जिह्वेति पस्पशायां भाष्य- कारः। तद्व्यापारविशेषसद्भावत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकु। तथा चोक्तम्- 'वाक्यामभिधेयमानेऽर्थे येनान्य प्रतिपद्यते। भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कथ्यते॥' इति॥ ३. संकेतेति। संकेतकाले मनो यस्य। त जिज्ञासुमिल्पर्थः। अत एव हसद्भ्या नेत्राभ्यामर्पितं सूचितमाकूत रहस्यं येन। हसदिति भिन्न प्रफुल्लमित्यर्थक पद्मनिशेषणं वा। शेषं व्यक्तम्। इह नेत्रेङ्गितेन लक्षितो गूढाभिप्रायः कामिन्या निशासूचकेन पद्मनि- मीलनेन प्रकाशित.॥ १. '-व्यङ्ग्यार्थ-' स-च २ 'प्रयोजकम्' र-न; ग पुस्तके तु 'अत्रैव-' इति नास्ति। ३ 'इत्थं' क.