साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 105, कुल 506 में से
संदर्भ में पढ़ें९८ साहित्यदर्पणे अथ धीरोद्धतः— मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥ यथा—भीमसेनादिः । अथ धीरललितः— निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः— सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा—मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह— एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलासमुरागो दक्षिणः कथितः ॥ ३५ ॥ द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा— स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु- र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । अहंकारः अह महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र- चण्डचरित. ॥ सामान्यगुणैर्नायकसामान्यगुणै. । धीरोदात्तादित्रितयभिन्नो नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति । शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता ऋतुस्नाता । वार सुरतार्थ नियमितदिवस । जिता जयेनात्मसुरतार्थ प्राप्ता । देवी कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यनिश्चयेन मूढं व्याकुलम्
- एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धत, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एव धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥ १ ग पुस्तके 'कला नृत्यादिका यथा' नास्ति, घ पुस्तके तु 'यथा रत्नावल्यां' इति पाठ. २ 'धीरप्रशान्त' ३ 'महत्सु' घ. ४ 'नायिकासु' इति घ पुस्तके नास्ति. ५ 'नायक' इति नास्ति ग पुस्तके