भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 106, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 106

तृतीयः परिच्छेदः । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥ यथा मम— शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किञ्चित्तत्र विधातुमक्षमतया वाष्पं सृजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ अनुकूल एकनिरतः— ऐकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा— अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः । किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै- तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा- दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या- श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयकं कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् । १. इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया विज्ञापिते विदित्य निवेदिते सति । एतदुक्तं भवति—ऋतुस्नातैव तावदनपेक्षणीया किमुत कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुताद्यनाथस्यसन्निहितन्या- यागतसमागमसमय., सामान्येऽपि जये परनवता किमुत कमलाललामकमलाप्रयुक्ते । एवमुत्तरोत्तराधिककार्यसंपानेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥ २. नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥ ३. 'वक्त्रं वीक्ष्य चुम्बितुमर्' इति साधीयान् पाठः ॥ १. ग-पुस्तके तु 'इत्थं सान्द्रविलेपनस्तनुभृतोऽप्युत्थातुमप्यक्षमः सान्द्रस्नेहमहानिधिर्व्यथयते नोन्माद्यते । रक्षन्ते न परिक्षतीर्यत इतो नान्तर्बहिर्व्यापिना संविष्टा रमणेन तन्मुखवलादाज्ञा च तद्दिद्यतम्' इति परमोदाहरणं दृश्यते २. 'एकस्या-' इति पठितं ग-पुस्तके ३ 'इत्यवे' इत्यधिकं ङ-पुस्तके.