साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 107, कुल 506 में से
संदर्भ में पढ़ें१०२ साहित्यदर्पणे अर्थचिन्तने सहायमाह— मन्त्री स्यादर्थानां चिन्तायां— अर्थास्तन्त्रावापादयः। यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने' इति केनचिल्लक्षणं कृतम्, तदपि राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र- करणे । १ नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त- सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि- मात्रायत्तार्थचिन्तनॊपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः । किं तु स्वयमेव सम्पादकः । तस्यार्थचिन्तनाद्यभावात् । शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुपज्यते । चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थ । उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक- स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं चिन्तापक्षे स्वस्य सहकारिरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा- च्चेति भाव । सरिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् । मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः । स्वलक्षणेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभाव । तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि- १. तन्त्रेति । तन्त्रण तन्त्रम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो- च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने' 'हुलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तुरुरिव' इति ॥ २. केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः कार्यान्तरसहायानाह—'मन्त्रौ स्व वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः। तत्र विभागमाह—'मन्त्रिणा ललित , शेषा मन्त्रिष्वायत्तसिद्धय. ।' उक्तलक्षणो ललितो नेता मन्त्रायत्तसिद्धि. । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी- कृतसिद्धय इति ॥ १ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्भवदवरोधे ।' इत्यार्धं रथो ने 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापादय ।' इत्येवमउष्ट्रपुरूपतत्र प्राप्तितम् 'तथा नि खण्डे गद्ये योजितम् २ 'तस्योभयस्यापि' क.