साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 109, कुल 506 में से
संदर्भ में पढ़ें१०६ साहित्यदर्पणे अथ विलासः- धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः । यथा- दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयेत्युत दर्प एव ॥ संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥ ऊह्यमुदाहरणम् । भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता । यथा- आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥ यथा- श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥ तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साह सारो बलं च यया सा । धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय- कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेख ॥ ऊह्यमुदाह- रणमिति । यथा मम रामविलासे- 'तन्निपीय कटु कर्णपदव्या खेदमाप न मनागपि राम । शूलपाणिरिव घोरमुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मण । अचलनम् अप्रच्यवनम् ॥ प्रसं- ख्यानपरो योगनिष्ठ । आत्मेश्वराणा मनोरोधक्षमाणांम् ॥ अधिक्षेपो
- अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥ घ. ३. 'तस्य-' इत्यादि लक्ष्य'ते' इत्यन्त पाठो टि 'मनोनिरोधक्षमागाम्' इत्यादाग्रे ५०