भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 113, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 113

१२६ साहित्यदर्पणे

'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥' 'मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरप महांस्त्वयाद्य दत्तः ॥' 'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्त्या सममसिताम्बुरुहेण चक्षुषा च ॥' इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी- रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् । इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥ ता नायिकाः ।

पिवति पाति वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के- सरो यस्य तेन । चक्षु पक्षे—पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश- ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥ अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र- यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा- सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैरनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती- त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा- येति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकम्, अद्य कलिं कलहं च । 'कलहे च युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माकं किमर्थं वितरसि । हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वया अद्यैव वर्तमानो महान् कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते किं कृत्यन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपज्जघान ताडयामासेति ॥

  1. इतरा इति । तथा चोक्तम्—'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना । चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि ।

१ अयं श्लोकः क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.