साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 114, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १३३ अथ विव्वोकः— विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा— ‘यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णां दृष्टिं प्रिये । अत्यन्ताभिहितेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥’ अथ किलिकिञ्चितम्— स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलिकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥ यथा— ‘पाणिरोधमविरोधितवाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः । कामिन स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥’ यासामिति । कंचिन्मानिनं प्रति सख्युपगर्भवचनमिदम् । सद्गुणानुसरणे संद- र्शनायने दोषाणामनुवृत्तिः खय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं दन्तक्षेपणादिरूपनानाप्रकारप्रतिबन्धम् । हारि मनोहरम् । करणं भिन्नम् ॥ १. प्राणानिति। गन्धरूपरसादिना न्यक्करणम्, न पुनः संपूर्णदृष्टिप्रिये । २ वस्तुनीति । गं ऽभ्यन्तरविषये ॥ ३ वामा इति । ङग देविषु । देवी प्रसूति शशिशेखरम चित्तवृत्तिभिरिति