साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 115, कुल 506 में से
संदर्भ में पढ़ें१३२ साहित्यदर्पणे अथ विलासः— यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥ विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना । यथा— 'अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥' अथ विच्छित्तिः— स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । यथा— 'स्वच्छाम्भःस्नपनविधौतमङ्गमौष्ठ- स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीया- नाकल्पो यदि कुसुमेषुना न शून्यः ॥' जूतो यस्या अस्तीति ॥ अत्रान्तरे नायकसंदर्शनादिसमये । वाग्विभवमतिवृत्तम- तिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत् । ते प्रसिद्धा भूरिसात्त्विकवि- काराः स्तम्भादयो यस्मात्तत् । आचार्यकमुपाध्यायकर्म । उपदेश इत्यर्थः ॥ स्तोका अल्पा आकल्परचना वेषविन्यासः । प्रतनु अतिसूक्ष्मम् । विविक्तं निर्मलम् ॥ महाकुलोत्पन्ना, कुलं स्वामिकुलममलं निष्कलङ्कम् । अयं मटक्षणो जनः न त्वेष स्थिरः, जीवितं च न स्थिरम् । अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमभि- नरामनुचितमिति भावः ॥
- इतीति । इत्येवंरूपं स्यात् एतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु । किन्न्वन्तरित्यर्थः । यदि स कुसुमेषुना कामेन शून्यो न स्यात् । अन्यथा उद्विग्नितानामिव कनकभूषणादि नाप्यायत एवेति भावः ॥ १ 'प्रतन्वङ्गे विशेषस्तु विष्णोनेत्रादिकर्मणाम् २' इति ग. २. 'मोष्ठस्तम्बूलदीप्ति विच्छित्ति- १' इति ग. ३ 'कन्दिशो शैलप्रपातमधो गोगोवनागद्वेषिनिवारणे । यस्य वने ० ० ० ० च यदि दहनदोहः ३' इति ग.