साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 116, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १३३ अथ विव्वोकः- विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा- 'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरसमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥' अथ किलकिञ्चितम्- स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥ यथा- 'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥' यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे परै- रुद्भावने दोषाणामनुवृत्तिः स्वय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं वस्त्रक्षेपणादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं १. प्राणानिति । मानत्रह्यस्त्वत्प्राणार्पणं तावत्सुकरम्, न पुनः संपूर्णदृष्ट्यर्पणम् ॥ २. वस्तुनीति । नीवीवसनादिरूपे ॥ ३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे बीजम् । ४. पाणीति । करभोरुः स्त्री अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का- मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर सित गर्भे अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड- १ 'गर्भाभिमानादिष्टेऽपि विव्वोकोऽनादरोऽनया । तथा वात्स्यायन - 'शोभाभ्यन्तारितैर्वैत्र यत्प्रिय- म्यवधीरणम् । ताटन वावर्त्तनेन यच्च रागायैव वर्धनम् ॥ निषेधस्यापि हि जानन्पुष्पादिना इति । दत्तस्तम्तिनपैश्राद्यरोपस्थानेऽपि यन्मित्तम् ॥ प्रेयस्तत्सूरयो राशीद्भावनवाले । विव्वोकारव्य मूनो हाव रागरागविवर्द्धनः ॥ अभिनवगुप्तेनपट्टनावपि 'यष्टिनादरस्त्वन्या । नग्नत्वं प्रियस्य वधन (न) ताडनमश्राणिद्यादि विव्वोकः ॥' अवधीरणे यथा कालिदास - 'निर्मुमुन्द दशनच्छदं न्नो वाचि मधुरैरधीगण्परा । ईक्षणात्तनया समीपानात् नाय दिपदानहेतुवन् ॥' इति ग २ 'पाठा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'रोषाऽह्रञ्चीत्यादे संकरः किलकिञ्चितम् ।' इति ग ४ 'रुजिनीडावृत्ते व्यजनि सन्त्रास समथं मया दृष्ट्यैः तया इत्यित्थन्तद्वाष्पैर्मधे । कुल- भूमहाडौ मरटिन्दिरगुंणैरहर्द्दित्तकण्येगोधोद्वाप्त पुनरपि वि इपदान्ति मुखम् ॥' इति ग.
- १२ ५