भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 118, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 118

तृतीयः परिच्छेदः । १४९ अमुना चोत्तमः शेते, मध्यो हसति गायति । अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥ यथा— ‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुध्रुवां प्रववृते परिहासः ॥’ अथ जडता— अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये— ‘णेवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि । मद्यस्यानवस्य उपभोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग- ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्यं यत्र स चासौ हासश्चेति ॥ अप्र- तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो- क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासङ्गतवाक्यैः सुकुमा- रस्खलद्विला च योऽभिनीयेते स आद्यः । कुञ्चितनेत्रस्खलितघूर्णितनादिनिर्नमध्यमः । गतिभ्र- ष्टस्मृतिनाशहिक्काछर्द्यादिभिर्चरमः । प्रदीपे तु ‘उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य- मप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥’ इति व्यत्यासोऽस्ति ॥

  1. प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । ‘सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।’ इति विश्वः । तेन त्रिसरकेण । ‘त्रिपाने मदातिभूमिः’ इति पानप्रसिद्धिः । प्रतिभां प्रतिभं प्रतिभानविशेषः । तत्प्रातिभं गतानां त्रिवारसुरापायोत्कटमदोद्रेकप्रागल्भ्यभाजां सुध्रुवां वक्रवाक्यरचनारम- णीयं वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका- शितानि रहस्यानि नाभ्याद्यवयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ हासश्चेति विशेषणममानः । प्रववृते प्रवृत्तः ॥
  2. जडतेति । चिन्तोत्कण्ठामयविरहेष्टानिष्टदर्शनश्रवणादिभ्यस्तत्तदवस्थेऽवधार्यप्रति- संधानविकलं चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वः परश्च ज्ञायते । यदाहुः— ‘कार्याविवेको जडता परवतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥ अनुभावास्त्वमी तूष्णींभावविस्मरादयः । सा पूर्वं परतो वा स्यान्मोहादिति निदर्श- नकृत् ॥’ इति ॥
  3. णवेति । स्तब्धस्वेदम् । यहृद्दण्डम्—‘स्तब्धवलितं तत्तद्विधं यत्र चक्षुष्क- १. ‘अथ जडता’ इति नास्ति ग-पुस्तके. २. ‘यथा—’ इत्यादिपाठिका नास्ति ग-पुस्तके.