साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 120, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 120
तृतीयः परिच्छेदः । १५१ अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥' अथ विबोधः— निद्रापगमहेतुभ्यो 'विबोधश्चेतनागमः । जृम्भाङ्गमङ्गनयनमीलनाङ्गावलोककृत् ॥ १५१ ॥ यथा— 'चिरंरतिपरिखेदप्राप्तनिद्रालुब्धानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्रा कुर्वते न प्रियाणाम्- अशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥' अथ स्वप्नः— स्वप्नो निद्रासमुत्थस्य विषयानुभवस्तु यः ।