भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 122, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 122

तृतीयः परिच्छेदः । १५३ अथ मरणम्— शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् । यथा— 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥' अथालस्यम्— आलसं श्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत् ॥ १५५ ॥ वर्गसपतिः । अवज्ञा परस्मिन् ॥ अन्यैर्मृदुतायुधभिन्ने ॥ रामेनेति । सा निशा- चरी ताडका राक्षसी, सैव निशाचरी अभिसारिका नायिका । राम एव मन्मथ तस्य शरेण हृदये वक्षसि मनसि च ताडिता सती जीवितेशो यम एव जीवितेशः प्रियस्तस्य वसतिं जगाम । कीदृशी । गन्धवद्रुधिरमेव चन्दनं तेनोक्षिता लिप्ता ॥ 'जाड्यम्' इत्यत्र क्वापि 'जैह्यम्' इति पाठः । स न सम्यक् असंगतार्थापत्ते । मुक्तास्थूला अश्रुलेशा नयनोदबिन्दवः तरुकिसलयेषु बहुशः न खलु न पतन्ति । अपि तु पतन्त्येव । एवंविध मानवलोक्य वनदेवता अपि रुदन्तीति भावः ॥

  1. शरेति । अत्र विशेषमाह रसगङ्गाधरकारः 'रोगादिजन्या मूर्च्छारूपा मरणप्रा- गवस्था मरणम् । न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या- त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यमहर्वतितया शरीरप्राणयोगस्य हेतु- त्वात् । उदाहरणम्—'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकिनासीत् । अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥' प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । स्तब्धदशाप्राप्त्यनुसङ्गाच्छाश्वदासादवस्थोऽप्ययं भावः षड्व्यङ्ग्यतामावहति । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमान चरमदशायादामपि तस्या दयितगुणस्मरणं नाभूदिति विप्रलम्भस्य शोकस्य वा चरममभिव्यङ्ग्यं पोषयन् । अयं च भावः स्वव्यञ्जकनादोत्तरवर्तिना बाष्पान्तेन सहर्षघटनेन सन्निपातः प्रादुर्भावन्दशने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । ज्वरः पुनरमुं प्रपञ्चेन न वर्णयन्ति । अमङ्गलप्रायत्वात् ।' इति । प्रदीपोऽप्युक्तम्—'जीवत्योन्मनागम्भो मरणं परेरितीवदन् । समोहेन्द्रियस्खलनाङ्गविलेपनादिकृत् ॥' इति ॥
  2. आलस्यमिति । स्त्रीशृङ्गिणांम्बादिगतादिवन्या चेष्टकः प्रियन्वृत्त्यन्तराग्यम् । अत्र च मानाभ्यर्थम् । नापि गर्दावर्णशून्यकम् । तेन कार्योपरमस्त्यागान्तरस्य बृहदवेदेदि गान्तेऽन्तणादाडान्यं भेदः ॥ १. 'यथा मरणम्' इति क्वचित् न दृश्यते २. 'शराद् दुःखादिना जातं' तथा 'शराद्यैर्' इति वा ३. यथा—'राम-' इत्याद्युदाहरणं क्वचिन्न दृश्यते ४. 'निहता' इत्यत्र ५. इत्यपि 'अथाह्लादम्' वा क्वचित् पाठवैचित्र्यम् ॥