भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 123, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 123

१५८ साहित्यदर्पणे अथ मतिः— नीतिमार्गानुसृत्यादेरर्थनिर्धारणं मतिः । स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवः ॥ १६३ ॥ यथा— 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' अथ व्याधिः— व्याधिर्ज्वरादिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत् । तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । शे षमुदाहरणम् । अथ त्रासः— निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ १६४ ॥ मुखं स्मितयुक्तं वदनं स्मरामीत्यर्थः ॥ नीतिमार्गो नीतिशास्त्रं तस्यानुसृति र्गमम् । आदिना अनुमानादेर्ग्रहणं । निर्धारण निश्चयः ॥ असंश्य मिति । शकुन्तलामालोक्य दुष्यन्तस्यानुमानमिदम् । क्षत्रपरिग्रहक्षमा क्षत्रियवि वाहोचिता । 'इयम्' इति शेषः । अस्यां शकुन्तलायाम् । गमयेति—सतां मिति । प्रमाणं निश्चयबीजम् । अन्तःकरणस्य मनसः प्रवृत्तयः शङ्कापादयः ॥ वा ताद्यैरिति । आद्यपदेन पित्तश्लेष्मणोर्ग्रहणं । भूमीच्छा भूमिपतनेच्छा । तत्र व्याध्युदाहरणं यथा मम—'प्रियजनपरिप्राप्ताद्वेपमाना कृशाङ्गी त्रिहुत- दहनवर्णा स्वेदगर्भिस्तगात्रीम् । विपुलपुलकश्लेषामाकलय्य ज्वरार्त्ता कुमतिरि- तश्चिन्तनगरे निर्नमज्ज ॥' निर्घात इति । 'यदान्तरिक्षे बलवान्मारुतो मरुता