साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 125, कुल 506 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का मूल पाठ दिया गया है:
१६२ साहित्यदर्पणे तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ १६९ ॥ यथा— 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोल विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं १नवमैलिकायाः ॥' अथ ग्लानिः— ३रत्यायासमनस्तापक्षुत्पिपासादिंसंभवा । ग्लानिर्निष्प्राणताकम्प४कार्श्यानुत्साहतादिकृत् ॥ १७० ॥ यथा— 'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम् ॥' अथ चिन्ता— ध्यानं २चिन्ता हितानाप्तेः शून्यताश्वासतापकूत् । मुष्मिकी परलोकभवा । नीवारस्तृणधान्यम्, कृते निमित्तम् । साप्रतं वार्धके । अत्र तत्त्वज्ञानेन नि स्पृहत्वम् ॥ अन्यास्विति । मधुपानकालीनश्चरणप्रहारादिरुपमर्दः । पक्षे संभोगकालीनश्चुम्बनालिङ्गनादि. । लोलं सतृष्णम् । मुग्धा कोमला सुरतमुढां च । रज पराग आर्तव च । अकाले मकरन्दाभावदशाया बाल्ये च । अत्रोप- भोक्तरि बालाया अस्थैर्यं परुषवचनेन प्रतीयते ॥ निष्प्राणता असामर्थ्यम् ॥ बन्धनात् उत्पत्तिस्थानात् । निष्प्राणत्वानौजसस्तत्त्वसक्षयाणा बलहानिरूपत्वेऽपि १. नवेति । सप्तलायाः 'सप्तला नवमालिका' इत्यमरः । 'नवमल्लिकायाः' इति पाठे तु मुग्धेत्यादिनैव नवत्वलाभे पुनर्मल्लिकाया नवत्वविशेषणं व्यर्थम् । नवा सुप्ता माला अस्या., कप् । इति भानुजिदीक्षिताः ॥ २. चिन्तेति । इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यमूर्च्छेखनाधोमुख- त्वादिकृतुश्चित्तवृत्तिविशेषश्चिन्ता । यदाहु —'विभावा यत्र दारिद्र्यमैश्वर्यभ्रशनं तथा । 'उद्वेगास्थितिनैरस्यसमुत्थैरवबुध्यते ।' इति ग २ 'नवमल्लिकायाः' इति क. ३ 'रत्याद्ययास- र्निर्निष्प्राणता मता । अनुत्साहाददौर्बल्यस्वेदाधैर्य्यक्त्विमेति सा प' ग. ४ 'कार्श्य' घ. 'उन्निन्नयनतारा क्षामवक्त्रेदुविन्या रजनय इव निद्राक्लान्तनीलोत्पलास्य । निनिरभिन्न ध्याना केशराशाननपिनिगृहेभ्यो यान्त्यमूर्वारवन्ध्य ॥' इति ग.