साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 130, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १७१ दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥ १८८ ॥ श्रवणं तु भवेत्तत्र दूतवन्दिसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ॥ १८९ ॥ अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः १९० अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् । उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ १९१ ॥ अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् । व्याधिस्तु दीर्घनिःश्वासपाण्डुताकृशतादयः ॥ १९२ ॥ जडता हीनचेष्टत्वमङ्गानां मनसस्तथा । शेषं स्पष्टम् । क्रमेणोदाहरणानि— 'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । तस्य निरुक्तप्रकारचतुष्टयानन्तर्भावात्स्यात्त्याभावेन तत्र सामान्यलक्षणस्यातिव्याप्ति- प्रसङ्गात् । तत्र पूर्वरागादिषु । मिथ इति । अन्योन्यमित्यर्थः । दशाविशेषोऽ- वस्थाभेदः । अप्राप्तौ परस्परासङ्गमे । वन्दिनः स्तुतिपाठकाः । दशाविशेषा- नाह—अभिलाष इति । दश प्रकाराः । अत्र पूर्वरागे । कामकृता रतिजन्या दशाः कामदशाः । स्पृहा अभीष्टप्राप्तीच्छा । अपरिच्छेदो विशेषनिर्धारणा- भावः । अलक्ष्यवाक् निर्विषयं वचः । शेषं स्मृत्यादिकम् ॥ प्रेमार्द्रा इति । प्रेम्णा आर्द्रा निबिडस्पृष्टा । प्रेमान्विता इति यावत् । प्रणयं दृढं स्नेहं स्पृशन्ति जनयन्ति । परिचयान्मुहुर्मुहुर्दर्शनात् । उद्गाढ उल्बणो यो राग सुर- तेच्छा तस्योदयो याभ्यस्ताः । मुग्धदृशो नार्याः । चेष्टा नेत्रविक्षेपाङ्गिपाः
- स्तुतीत्यादि । 'देवो द्वापरपादैस्तु तद्देवान् च गनन्धरन् । गान्धर्वेणोपगीयानि वेतालाः स्युर्वरिष्ठ्यते ॥', 'मन्दमन्दं निनादैश्चेन्मागधैर्मङ्गलध्वनी श्रुता । इति वारी भवे- दत्र तदुक्तं शुन्तशीलैस्तु ॥', 'दक्षिणान्मागधं वा न च दृष्ट्वा च जायते । प्रक्षेपः प्रान्ति- दृष्टेऽपि न दृश्येतोक्तिकीर्त्यते ।', 'राजन्यतेऽङ्गनामुद्यदेनेनोग्गिते । व्यापारो जायते दत्र स उन्मादो निरुच्यते ॥' १. 'हृदी' पाठान्तरम् २. 'हृद्या' इति तु युक्तो ३. 'कश्चिन्मृषाप्रलापास्तु' 'उन्माद' इति इत्यत्र पाठो न दृश्यते तदिह.