साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 140, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १८४ अनुभावा दैवनिन्दाभूपातक्रन्दितादयः । वैवर्ण्योच्छ्वासनिःश्वासस्तम्भप्रलपनानि च ॥ २२४ ॥ निर्वेदमॊहापस्मारव्याधिग्लानिस्मृतिभ्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ २२५ ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा मम राघवविलासे— 'विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटनाविधेः स्फुटं ननु खड्गेन शिरीषकर्तनम् ॥' अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्री- पर्वणि द्रष्टव्य । अस्य करुणविप्रलम्भाद्भेदमाह— शोकस्थायितया भिन्नो विप्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ २२६ ॥ इष्टनाशश्च पुत्रादेर्विच्छेदो मरणं च वित्तादेर्नाशश्च ॥ अनयोर्जटाधारणश्रीरामश- रीरयो घटना योजना । खड्गेन शिरीपकर्तननिवेत्यर्थः । अत्र प्रकरणाद्भाग्यो नायको लभ्यत इति । विवृणोति—अत्रेति । अनुचिताचरणमेव दैवस्य निन्दा सैवानुभावः । बन्धुवियोगो बन्धुमरणम् । तत्र यथा—'गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥' अत्रेन्दुमतीमरणजनितशोकार्तस्याजस्य मृत्युनिन्दा । वित्तनाशो यथा—'प्रातर्भदामि वसुधाधिपचक्रवर्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी । यच्चिन्त्यं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति ॥' अत्र नष्ट- राज्यस्य रामस्य परिदेवनम् ॥ स्थायीभाव इति शेषः । पुनः संभोगो हेतुरनयो
- यथेति । यथा वा मम—'पाराशर्य्यान्वयी पतत्रि मरुत इत्यादा परेद्विजदी- क्षामपनीयानेकान्तरा स्तूयन्ते एव राज्ञे मुहुः स्तुतिः । अरण्ये पुण्डरीकाक्षि विपन्ना वैदग्ध्यमात्म्कमे विदधतश्च सोऽपि सौन्दर्य्या प्रत्युत्तरं दीयताम् ।' इति । *. 'स्फुटमेवेदम्' ... ... ... 'रन्ध्रोपनिपातिनोऽनर्था इति' पाठान्तरं वा पुस्तके * 'शोकं-' इत्यत्रे '-दुःखम्।' इत्यारम्य पाठस्य स्खलनेन पुस्तके 'भेद- माहानन्दहेतुत्वे हे ननु पूर्वत्र बन्धुवियोगः । तद्दिष्ट विप्रलम्भकेन सह कस्यचिद् विरोधोऽस्तु' ? इत्येव दृश्यते १. विमर्षेति पाठः