साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 148, कुल 506 में से
संदर्भ में पढ़ेंपुष्टिस्तु महाभारतादौ द्रष्टव्यो । निरहंकाररूपत्वाद्वयावीरादिरेष नो ॥ २४९ ॥ दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य- नुरागादेरन्ते च विद्याधरचक्रवर्तित्वप्राप्तेर्दर्शनादहंकारोपशमो न दृ- श्यते । शान्तस्तु सर्वाकारेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम- र्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु ‘न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥’ इत्येवंरूपस्य शान्तस्य मोक्षावस्थायानेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र संचार्यादीनामभावात्कथं रसत्वमित्युच्यते— युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः । रसतामेति तदस्मिन्संचार्यादेः स्थितिश्च न विरुद्धा ॥५०॥ ‘निर्वाजीकृत-’ इति पाठेऽपि बीजं वासना तच्छून्यीकृतेत्यर्थः । करट. काक ॥ ननु शान्ते दयाद्यतिशयसम्भवेन दयावीरादिरेवायमित्यत आह—निरहंकार- रूपत्वादिति । आदिना धर्मवीरदेवतादिविषयरतिप्रभृतीना ग्रहणम् । एष शान्त- रस । तथा चाहंकारसवलितो दयादिरेव दयावीरादेर्घटक । तदितः शान्तरस इति विशेष । ततश्चेत्यादिरेवावधारणाच्च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ- विशेषे ॥ न यत्रेति । द्वेषो रिपूणामपचिकीर्षा । राग सुहृदामुपचिकीर्षा । इच्छा द्वैपविरहुस्तदुपायेच्छा । भावेषु पंदार्थेषु लोष्टकौञ्चनादिभिन्नावादिषु सत्सु रोग- द्वेषरहितेन सममविषमं प्रमाण प्रतीतिर्यैन । ‘समप्रधान’ इति पाठस्तु न मनो- रम, अर्थासङ्गतेः । तादृशदशाया व्यभिचारिभावादीनामसम्भवात् । गन एव न्यायितया प्रधानं यत्र न । आत्मस्वरूपापत्तिलक्षणायां परमात्मस्वरूपत्वप्राप्ति- रूपायाम् ॥ युक्तवियुक्तेति । विषयेभ्य प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनो विधाय वर्तमानाश्चिन्तासन्तानान् युक्ता । यस्य योगजधर्ममहात्म्येन मनसा निजा- त्मन्यनुसन्धानकारो जायते । यश्च भूतेन्द्रियजयी अणिमाद्या दानासिद्धीरीश्वरव- पायाथेन्द्रियनिरीक्षणादितान् समाप्यन्चितो वियुक्त । यस्य च योगजधर्मस-
- स एवेति । तादृशशम एव न निष्पन्ने रमना लभत इत्यर्थः । १ 'दृष्टेति-' इति दर्शित-पाठे ना हस्त० । २ 'सदा दयावीरादेः स्वरूपभेदोऽयं' इत्यादिः ना-पुस्तके ३ 'नागान्नादौ' इति नास्ति क घ पुस्तकयो । ४. 'रागादौ' इति घ ५ 'अभि- स्पन्दो नास्ति क घ पुस्तकयो ६ सर्वथापि ना ७ 'न च हेयविद्वेषहेति' ग. ८. 'प्रवे' क घ ९ दृक्प्रत्यक्षः क ख घ. १० 'पदार्थेषु' नाहि पुस्तकेऽपि ११ 'विपक्षानुसन्धि' नास्ति पुस्तकान्तरे १२ 'पापा' इत्यादि 'पञ्चेत्यन्यद्' इत्यन्तं पाठो नास्ति पुस्तकान्तरे साहि० १७