साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 15, कुल 506 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ पर अंकित पाठ का पंक्तिबद्ध लिप्यन्तरण प्रस्तुत है:
साहित्यदर्पणे न च वेदविहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान् योगमास्थाय तत्त्ववित् ॥ धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससंग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ संकल्प्य भगवान्नेवं सर्वान्वेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसंभवम् ॥' ( १ अ. २—१६ श्लो ) एतेन वैवस्वताह्वयस्य सप्तमस्य मनो. कस्मिंश्चित्त्रेतायुगे राज्ञो नहुषस्य राज- काले, यद्वा सांप्रतिकाद् गतकाले प्राग् द्वापरयुगे प्रोक्तेभ्यः पुराणेभ्यः पूर्वं त्रेता- युगे नाट्यशास्त्रस्य प्रणयनमिति व्यक्तम् । तत्र प्रथमकोटावन्यो नहुषो द्वितीयको- टावन्य इत्यपि सुभवन् पन्था । नहुषश्च आयुपः पुत्रो ययातेः पितेति महाभारतम् ( आदिपर्व. ९५ अध्या ७ ग. ) ॥ यन्न मनुष्यस्य यावदायु संभाव्यते तावतो बह्वधिकनिबन्धनादिदानींतना इति- हासपुराणेषु प्रसिद्धानानान्यान्यथाऽन्यथा गमयन्तोऽपि वस्तुतो न विश्रान्तिं संध- दधते । उच्यते चनन् । यद् यथोत्पादितं तत् तथैव परीक्षितं स्वरूपप्रतिष्ठितं भवति । इतरथा परीक्ष्यमाणं तु स्वरूपाप्रतिष्ठितमेव । नहि मृद्व्यतिरेकेण विभा- व्यमानो घटट स्वरूपप्रतिष्ठितीति । एवमस्माकमार्यावर्तभुवामितिहास पुराणं वापि न केवलमुत्तानावगमात्रमनिष्टकल्पनवैने, किंतु पातञ्जलादिप्रख्यातयोगवि- द्वद्भिरुपलब्धा (यो. द. वि. पा. ) तत्रतत्र विप्रकृष्टदेशकालपात्रघटितमपि वस्तु पश्यदन् । अत एव भगवता वेदव्यासेन— 'इतिहासपुराणाभ्यां वेदं समुपवृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ( म. भा. आदिप. १ अ. ३६७ श्लो.) इत्येतिहासिकपुराणस्य वेदौपबृंहणं निर्णीतम् । न स्याद्यद्येवमादरभूरिति- हास पुराणं चेत्, तर्हि कथं कथमपि लोकवृत्तान्तं प्रवर्तमानं सिध्येत् । नैवं कृतं कुशाग्रे ग्रन्थविस्तारबाहुल्येन । अत एव चात्र प्रसंख्यानावबोधेन कुतर्कीन्धा- नर्थान् 'नैनं व्यामोहमगधो यदेनमन्धो न पश्यति' इत्यनेन परिह्रियते । तस्माद्यैस्तैः वस्तु यावत्प्रत्यक्षवद् बुद्धिविशेषयोगेन सुम्मानपात्रकल्पितं तादृगेव सर्वमनुसंधेयम् विहितप्रसाधिनमवसेयम् । ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰