भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 159, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 159

२१० साहित्यदर्पणे अत्र 'भ्रम धार्मिक-' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्य- नतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या। यत्र खलु विधिनिषेधावुत्पत्स्यमानाववेव निषेधविध्योः पर्यवस्यतस्तत्रैव तद- वसरः। यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोर्विधि- अवगम्येते तत्र ध्वनित्वमेव। तदुक्तम्- 'क्वचिद्वाच्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम्। पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ॥' अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं प्रवेशः, न तु तिरोभावः अत एवात्राजहत्स्वार्था लक्षणा। द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृ- त्वाज्जहत्स्वार्था। विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः। असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ ४ ॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरेसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रम- व्यङ्ग्यश्चेति द्विविधः। गोदावरीकच्छकुञ्जवासिना दृप्तसिंहेन ॥' इति सस्कृतम्। आश्रमस्थाया कुलटा- गोदावरीकुञ्जरूपे सकेतस्थाने प्रत्यहं पुष्पावचयेन कृतसकेतभङ्गं स्वप्रेरितदुर्दुरो- द्वेवेणाप्यनिवृत्तं धार्मिकं प्रति तस्या एव दिनान्तरे उक्तिरियम्। गोदा गोदावरी। यो दिनान्तरे लामुद्धेजयति स श्वा गोदावरीतीरनिकुञ्जवासिना दृप्तसिंहेन मारित इत्यन्वयः। प्रकृते तात्पर्यविषयीभूतस्वैरविहारे। उत्पत्स्यमानौ उत्पत्स्यमाना- न्वयबोधौ। अन्वयबोधात्प्रागित्यर्थः। तदवसरो विपरीतलक्षणावसरः। एव- चात्र लक्षणामूलध्वनेरवसरो नास्तीत्यर्थः। ध्वनित्वमभिधामूलध्वनित्वम् ॥ वाच्य- तया विपरीतार्ये पर्यवसन्नतया ख्यातिरन्वयबोधः। ख्यातस्यान्वयबोधवि- षयीभूतस्य बाधनं बाधोदयाद्विपरीतार्थपर्यवसानम्। लक्षणा लक्षणामूलो ध्वनिः। अभिधा अभिधामूलो ध्वनिः। अत्र लक्षणामूलध्वनौ। आद्येऽर्थान्तरसङ्क्रमितवा- च्ये। द्वितीयेऽत्यन्ततिरस्कृतवाच्ये जहत्स्वार्था लक्षणेत्यनुषज्यते ॥ प्रथममिति। पश्चादस्यापरे भेदा वक्तव्या इति भावः। यत्र ध्वनौ। लक्ष्यक्रम इति। व्यङ्ग्य-

  1. असंलक्ष्येति। सम्यङ् न लक्षयितुं शक्यः क्रमः पौर्वापर्यं यस्य तादृशो व्यङ्ग्यो यस्मिन्सः। स्फुटे प्रकरणे झटिति प्रतीतेषु विभावातुभावव्यभिचारिषु सहृदयधुरीणै- १. '-क्रमव्यङ्ग्य' ग. २. 'लक्ष्यव्यङ्ग्यक्रमः पर' ग. ३ ग पुस्तके तु 'विवक्षित-' इत्यादि- 'द्विविध' इत्यन्तः पाठो नास्ति