साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 158, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 158
चतुर्थः परिच्छेदः । २०९ यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्या- र्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् । यथा— ^१निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते । अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति । अप्रका- शातिशयश्च व्यङ्ग्यः । अन्धत्वप्रकाशत्वयोः सामान्यविशेषभावाभा- वान्नान्तरसंक्रमितवाच्यत्वम् । यथा— भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥